पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तावदेव किल कापि वल्लकीवेणुहारि हरिणेक्षणा जगौ । यावदर्थपतिकान्तयोदिता नाशृणोदमृतवाहिनीं गिरम् ॥ ५३ ।। एकया गुरुकलत्रमण्डले धृष्टकामुक इवाधिरोपितः । रागचञ्चलकराग्रलालित कूजति स्म हतमानमानक ॥ ५४॥ वल्गितभ्र नवविभ्रमेक्षण वेपितस्तनमुदस्तहस्तकम् । चारु चित्रपदचारमेकया नर्तितस्मरमनर्ति तत्पुर ॥ १५ ॥ यद्यदिष्टतममुत्तम च यज्ज्ञातपूर्वमिह यच्च किंचन । तत्तदाभिरभिकर्मकौशलं स्पर्धयेव विधिवद्वयधीयत ॥ ५९॥ सर्वतोऽपि मुमनोरमार्पितालकृतिर्गुणविशेषशालिनी । भारतीव सुकवेरभूत्तदा शुद्धविग्रहवती नृपप्रिया ॥ ५७ ॥ रात्रिशेषसमये किलैकदा सा सुखेन शयिता व्यलोकयत् । स्वप्नसततिमिमा दिवोऽर्हंतस्तीर्थपद्धतिमिवोत्तरिष्यतः ॥ १८ ॥ संचरत्पदभरेण निर्भर भज्यमानदृढकूर्मकर्परम् । कल्पगन्धवहलोलमुद्धुर राजतादिमिव गन्धसिन्धुरम् ॥ १९ ॥ शृङ्गसंततिकदर्थितग्रह शारदाभ्रमिव शुभ्रविग्रहम् । भूत्रयोत्सवविधायिन वृषं मूर्तिमन्तमिव बिभ्रत वृषम् ॥ ६ ॥ गर्जितम्लपितदिग्गजावलीगण्डमण्डलमदाम्बुनिर्झरम् । एणकेतनकुरङ्गलिप्सयेवान्तरिक्षरचितक्रमं हरिम् ॥ ११ ॥ रावरोषदलिताम्बुदावलीलग्नलोलरुचिसचयामिव । कधरामुरुकडारकेसरोल्लासिनीं दधतमुद्धतं हरिम् ॥ ६२ ।। (इति पाठान्तरम्) स्फारकान्तिलहरीपरम्पराप्लावितप्रकृतिकोमलाकृतिम् । तत्क्षणभ्रमदमन्दमन्दरक्षुब्धवारिधिगतामिव श्रियम् ॥ १३ ॥ संभृतभ्रमरसङ्गिविभ्रमं स्रग्द्वयं शुचि विकासिकौसुमम् । व्योम्नि दिग्गजमदाविल द्विधा जाह्ववौघमिव वायुना कृतम् ॥ १४ ॥ १. नृपपठ्या २ पट ३ धर्मम्