पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१९ १ सर्ग:] धर्मशर्माभ्युदयम् । इत्थं तदर्थकथया ह्रदि कुल्ययेव श्रोत्रान्तरप्रहितया हृदयेश्वरेण । देवी प्रमोदसलिलैरभिषिच्यमाना वप्रावनीव विलसत्पुलकाङ्कुराभूत् ॥ ७ ॥ स श्रीमानहमिन्द्र इत्यभिधया देवस्त्रयस्त्रिशतो- दन्वद्भि प्रमितायुषो व्यपगमे सर्वार्थसिद्धेष्च्युत । चन्द्रे विभ्रति रेवतीप्रणयता वैशाखकृष्णनयो- दश्या गर्भमवातरत्करितनु' श्रीसुत्रतायास्तदा ॥ ८ ॥ आगत्यासनकम्पकल्पित चमत्कारा, सुरा सर्वतो जम्भारातिपुर सरा सपदि ता गर्भे जिनं बिभ्रतीम् । स्तोत्रैस्तुष्टुवुरिष्टभूषणचयैरानर्चुरुच्चैर्जगु- र्भक्त्या नेमुरनतिपुर्नवरसैस्तत्कि न यत्ते व्यधु. ॥ ८९ ॥ अहमिह मेहमीहे यावदुच्चैर्विधातु कथमिव पुरुहूतोत्पादित तावदीक्षे । इति मनसि विलक्ष त क्षितीश सरल- त्रिदशकुसुमवृष्टिच्छमना द्यौरहासीत् ॥ ९ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये पञ्चम सर्ग । ,ष्ट सर्ग । सा भारतीव चतुरातिगभीरमर्थ वेलेव गूढमणिमण्डलमम्बुराशे । पौरदरी दिगिव मेरुतिरोहितेन्दु गर्भं तदा नृपवधूर्दधती रराज ॥ १ ॥ तामादरादुदरिणीं रहसि प्रहृष्टा दृष्टि. प्रतिक्षणमुदैक्षत भूमिभर्तु । १ क्षेत्र भूमिरिव २ उत्मवम्