पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अष्टोत्तरा दशशती शुभलक्षणाना बिभ्रत्स पुण्यविपणि. सहसापि दृष्टः । स्वर्गादृतेऽपि परमोत्सवनिर्निमेषाः काश्चित्रमत्र न चकार चकोरनेत्राः ॥ १५ ॥ गच्छन्नधश्चिरतर जिनजन्मदत्त. हस्तावलम्ब इव निर्मलपुण्यराशिः । अप्रेरितोऽपि भवनामरमन्दिरेषु नि संख्यशङ्खनिवह सहसोज्जगर्ज ॥ १६ ॥ रे रे भवभ्रमणजन्मजरान्तकाद्याः सद्य प्रयात शममेष जिनोऽवतीर्ण । इत्थ प्रशासदिव डिण्डिमचण्डिमोच्चै स्व व्यन्तरानकशतध्वनिरात्ततान ॥ १७ ॥ एको न केवलमनेकपमण्डलस्य गण्डाच्छिखण्डिगलकज्जलकान्तिचौर । ज्योतिर्गृहग्रहिलसिहसहस्रनादै- रुत्कंधर स जगतोऽपि मदो निरस्त ॥ १८ ॥ तत्काललास्यरसलालसमोक्षलक्ष्मी- विक्षिप्तपाणिमणिकङ्कणरावरम्यै. । जन्मन्यनल्पतरकल्पनिवासिवेश्म- घण्टास्वनै. स्वयमपूरि जगज्जिनस्य ।। १९ ।। बालस्य तस्य महसा सहसोद्यतेन प्रध्वसितान्धतमसे सदने तदानीम् । सेवागताम्बरमुनीनिव सप्त काचि- द्दीपान्व्यबोधयत केवलमङ्गलार्थम् ॥ २० ॥ जन्मोत्सवप्रथमवार्तिकमात्मजस्य तस्य प्रमोदभरदुर्ललितो नरेन्द्र। , व्यन्तरो देवयोनिभेद.