पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। शृङ्गे वर्णगिरे स धूर्जटिजटाजूटाग्रपिङ्गत्विषि प्रेङ्खत्पाण्डुशिला कलामिव विधो कल्पाधिपः प्रैक्षत ॥१७॥ संसारार्तिमिव व्यतीत्य पदवीं शुक्लेन दिग्दन्तिना ध्यानेनेव महीभृतस्त्रिभुवनस्येवास्य मूर्ध्नि स्थितम् । ता कैवल्यशिलामिवार्धरजनीप्राणाधिनाथाकृति प्राप्यार्हन्निरतो व्रतीव सम भूदाखण्डलो निर्वृते ॥ ६८ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये सप्तम सर्ग । अष्टम सर्ग । अथ सरभसमस्या न्यस्तविस्तीर्णभास्व- न्मणिमयहरिपीठे निर्भरोत्साहयोग । शरममिव हिमाद्रेरभ्रमातङ्गकुम्भा- ज्जिनपतिमवतार्य स्थापयामास जिष्णु ॥ १ ॥ मदनभिदमधास्यनूनमेन न मूर्ध्ना यदि कथमपि शेषस्तच्छिलापद्मवेष । अपि मृदुलमृणाली कोमलस्तद्दुरापा स कथमितरथाप्स्यत्क्षाभरोद्धारकीर्तिम् ॥२॥ किमतनुतरपुण्यै स्विद्यशोभि स्वय वा निजसमयसमेतैरूर्मिभि क्षीरसिन्धो । इति सुरपरिपाट्या शङ्कमानै शिलाया शिरसि सितमयूखै श्लिष्यमाण स रेजे ॥ ३ ॥ अनुगुणमनुभावस्यानुरूप विभूते समुचितमनुवृत्तेर्देशकालानुकूलम् । अविकलमकलङ्क निस्तुल तस्य भर्तु स्नपनविधिममर्त्या. प्रारभन्ते स्म तस्मिन् ॥ ४ ॥ १ अर्धचन्द्राकृतिम् २ मुक , सतुष्टश्च