पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। इति तमुपरि मेरोनेंतुमुत्क्षिप्य देवा. कलितकनकककुम्भामारभन्ते स पङ्क्तिम् ॥ ११ ॥ अभिनवमणिमुक्ताशङ्खशुक्तिमवाल- प्रभृतिकमतिलोलैर्दर्शयन्नूर्मिहस्तै । जडजठरतयेक्षि व्याकुलो मुक्तकच्छ स्थविरवणिगिवाग्रे स्वर्गिभि क्षीरसिन्धु ॥ १२ ॥ उपचितमतिमात्रं वाहिनीना सहस्त्रै पृथुलहरिसमूहै। क्रान्तदिक्चक्रवालम् । अकलुषतरवारिकोडमजन्महीघ्रं नृपमिव विजिगीषु मेनिरे ते पयोधिम् ॥ १३ ॥ अनुगतभुजगेन्द्रान्मन्दराद्रीनिवोच्चै- र्दधतममलमुक्तामालिन स्वर्णकुम्भान् । सुरनिकरमुपेत वारिधिर्वीक्ष्य भूयो ऽप्यतिमथनभियेव व्याकुलोर्मिश्चकम्पे ॥ १४ ॥ उदधिनिहितनेत्रान्वीक्ष्य वाग्विभ्रमाणा निधिरमृतभुजस्तान्पालक केलिपात्रम् । विहितमुदमवोचद्वाचमेतामनुक्तो ऽप्यवसरमुखरत्व प्रीतये कस्य न स्यात् ॥ १५ ॥ नियतमयमुदञ्चद्वीचिमालाछलेनो- च्छलति जलदमार्गे ज्ञातजैनाभिषेक । तदनु जडतयोचैर्नाधिरोदु समर्थ. पतति पुनरधस्तात्सागर किं करोतु ॥ १६ ॥ प्रशमयितुमिवार्ति दुर्वहामौर्ववह्ने- र्यदधिरजनि चान्द्री शीलयामास भास । १ पूर्णागाधमध्यभावेन स्थूलोदरत्वेन च दृष्ट २ नदीनाम् , सेनानां च ३ पृथु लहरिसमूहै , (पक्षे) पृथुल-हरिसमूहै हरयोऽवा ४ अकलुषतरं वारि जलम् , (पक्षे तरवारि खा