पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

58 काव्यमाला। चपलकलभलीलाभिन्नकङ्कोलकैला- परिमल मिलितालिध्वानधीर. समीर ॥ २३ ॥ अयमिह जटिलोर्मिर्भाति कङ्केल्लिवल्ली- किसलयललिताभिर्विद्रुमाणा लताभि । ज्वलिततनुरिवान्तर्वाडवाग्ने शिखाना विततिभिरतिगार्ध्योत्साहबहीयसीभि ॥ २४ ॥ इह हि मिलितरङ्गत्प्रौढसिन्धुप्रियायाः पुलिनजघनरङ्गोत्सङ्गसङ्गात्पयोधि । सरभसमुपकूजत्कुक्कुहकाणदम्भा- न्मसृणमणितलीलोल्लासम यस्यतीव ॥ २५ ॥ सकलजगदधृष्यस्यैकगाम्भीर्यभाजो बहुलहरियुतस्य प्रोल्लसत्कङ्कणस्य । इति निगदति तस्मिन्नाकिलोकस्य तस्या- प्यजनि सलिलराशेरन्तर नैव किचित् ॥ २६ ॥ सुरसमितिरसख्यै क्षीरपाथोधिनीर यदुरुकनककुम्भैरुच्चुलम्याचकार । चुलुककलितवार्धे स्मारयामास नश्य- द्वरुणनगरनारीम्तेन कुम्भोद्भवस्य ॥ २७ ॥ स्वपनविधिनिमित्तोपात्तपानीयपूर्णा सपदि दिवमुदीयु शातकुम्भीयकुम्भा । दृषद इव तदन्ये यच्च रिक्ता निपेतुः प्रकटमिह फल तज्जैनमार्गानुवृत्ते ॥ २८ ॥ अनुगतभुजमालालीलयारम्यमाणे- र्मणिघटपरिवर्तावर्तनै क्षीरसिन्धो । १ अतितृष्णासयोगदीर्घतमामि २ कुकहो जलपक्षिविशेष ३ 'मणित रति जिनम' ४ बहु लहरि, (पक्ष) बहुल-हरि ५ कङ्कण करभूषणम्, नलग ६ देवसमूह