पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

(सर्ग धर्मशर्माभ्युदयम् । उदकमुपनयद्भिदेववृन्दैस्तदानी- मभिनवमभिनीत चार्घटीयन्त्रचक्रम् ॥ २९ ॥ धनसुषिरततानामुद्भुरानद्धनादे तिरयति रवमुच्चैर्भिन्नभूमीध्ररन्ध्रे । प्रसरति नवनाट्यप्रक्कणत्किङ्किणीना- ममरसहचरीणा मङ्गलोद्गाररावे ॥ ३० ॥ कलुषमिह विपक्ष दर्शनादेव जित्वा स्वगुणगरिमहेलाक्रान्तसिहासनस्य । प्रथमममरनाथा भूत्रयस्येव राज्ये कनककलशतोयैश्चकुरम्याभिषेकम् ॥ ३१ ॥ (युग्मन्) जरठविशदकन्दप्रोज्ज्वलाया शिलाया प्रचलदरुणमुग्धस्निग्धपाणिप्रवाल । अमृतमधुरनीरै सिच्यमान. स देवै- रभिनव इव रेजे पुण्यवल्लीप्ररोहः ॥ ३२ ॥ हिमगिरिमिव मेरु नीरपूरैः मृजद्रि स्रपयितुमपि पृथ्वीमाशु पृथ्वी समर्थै । शिशुरपि जिननाथश्चुक्षुभे नो मनाग- प्यहह सहजधैर्य दुर्निवार्य जिनानाम् ।। ३३ ।। यदधरितसुधौधैरर्दृत स्नानतोयै सममसमसमृद्धचानेनिजु श्रद्वयाङ्गम् । जगति खलु जगया सर्वसाधारणाया तदसुलभममर्त्या भेजिरे निर्जरत्वम् ॥ ३४ ॥ नटदमरवधूना दृक्कटाक्षच्छटाभा. कनकरुचिकपोले तीर्थकर्तु, स्फुरन्ती. । १ वाटीयन्त्रमरप इति प्रसिद्धम् २ 'तत वीणादिक वाद्यमानद्ध मुरजादिकम् । चशादिक तु सुषिर कास्यतालादिक घम् ।। इत्यमर ३ अने निजुरक्षालयन्