पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तैस्तैस्त्रिसंध्यं मणिभूषणैः प्रभु तमेकमेवोपचचार वासवः । को वा दुरापा समवाप्य संपदं विचक्षण. क्षेमविधौ विमुह्यति ॥ ५ ॥ औत्सुक्यनुन्ना शिशुमध्यसशय चुचुम्ब मुक्तिनिभृतं कपोलयोः । माणिक्यताटङ्ककरापदेशतस्तथाहि ताम्बूलरसोऽत्र संगत ॥ ६ ॥ प्राच्या इवोत्थाय स मातुरङ्कत. कृतावलम्बो गुरुणा महीभृता । भून्यस्तपाद. सवितेव बालकश्चचाल वाचालितकिङ्किणीद्विजः ॥ ७ ॥ रिङ्खन्पदाक्रान्तमहीतले बभौ स्फुरन्नखाशुप्रकरेण स प्रभु । शेषस्य बाधाविधुरेऽस्य धावता कुटुम्बकेनेव निषेवितक्रमः ॥ ८ ॥ बभ्राम पूर्व सुविलम्बमन्थरप्रवेपमानाग्रपद स बालक । विश्वभरायां पदभारधारणप्रगल्भतामाकलयन्निव प्रभु ॥९॥ पुत्रस्य तस्याङ्गसमागमक्षणे निमीलयन्नेत्रयुग नृपो बभौ । अन्त कियगाढनिपीडनाद्वपु प्रविष्टमस्येति निरूपयन्निव ॥ १० ॥ उत्सङ्गमारोप्य तमङ्गजं नृप परिष्वजन्मीलितलोचनो बभौ । अन्तर्विनिक्षिप्य सुखं वपुर्गृहे कपाटयो संघटयन्निव द्वयम् ॥ ११ ॥ चित्रं प्रचिक्रीड यथा यथा करप्रकीर्णपासुप्रकरै कुमारकै । आदर्शवन्निर्मल एव सोऽभवत्तथा तथान्त फलितावनीत्रय ॥ १२ ॥ क. पण्डितो नाम शिखण्डमण्डने मराललीलागतिदीक्षकोऽथवा । नैसर्गिकज्ञाननिययधेर्जगद्गुरोर्गुरुश्च शिक्षासु बभूव तस्य क. ॥ १३ ॥ शस्त्रेषु शास्त्रेषु कलासु चाभवन्मनीषिणा यश्चिरसचितो मद । ज्ञानापणे तत्र पुर. स्थितेऽगलच्छरीरत स्वेदजलच्छलेन सः ॥ १४ ॥ बाल्य व्यतिक्रम्य समुन्नति क्रमाद्दधत्समस्तावयवानुवर्तिनीम् । लक्ष्मीं स नि शेषकलाजुषस्तदा पुपोष पीयूषमयूखमालिन ॥ १५ ॥ मध्यदिनेनेव सहस्रदीधितेर्महाध्वराग्नेर्हविषेत्र भूयसा । बाल्यव्यपायेन किमप्यपूर्वज्जिनस्य नैसर्गिकमप्यभून्महः ॥ १६ ॥ तस्योद्धताद्रिर्दशकंधरो मुदे वहन्न येनैक्षि महीमहीश्वरः । नाश्चर्यकृत्तस्य बभूव तद्य स येन दृष्टस्त्रिजगद्धुरंधरः ॥ १७ ॥