पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

९ सर्ग] धर्मशर्माभ्युदयम् । १५ चक्राज्ञशङ्खादिविलोकनोत्थया स्वकान्तसंकेतनिवासशङ्कया । मन्ये न लक्ष्मीर्नवपल्लवारुण तदङ्घ्रिपङ्करुहयुग्ममत्यजत् ॥ १८ ॥ उद्यत्पदाङ्गुष्ठनखाशुदण्डिकाप्रकाण्डगर्भ युगमस्य जङ्घयो । कार्तस्वरस्तम्भविशेषशालिनी जहास दोला नवधर्मसपद ॥ १९ ॥ अत्यन्तमव्याहत्तवेगवीर्ययोर्जगत्रयीनेत्रमनोगजेन्द्रयो । स्तम्भाविवोरूदृढबन्धहेतवे व्यधायिषाता ध्रुवमस्य वेधसा ॥ २० ॥ कण्ठीरवेणेव नितान्तमुन्नत नितम्बबिम्ब परिणाहि बिभ्रता । एनोमयी तेन जनस्य दर्शनात्प्रमत्तमातङ्गघटाविघट्टिता ॥ २१ ॥ तप्तो ध्रुवं प्राग्जिननाभिपल्वले विवेश दानोद्धुरधर्मसिन्धुरः । समुल्लसल्लोमलतापदेशतो मदाम्बुधारा कथमन्यथा तटे ॥ २२ ॥ लक्ष्मीरिहान्त पुरसुन्दरी चिर गुणै सह स्थास्यति सौविदल्लकैः । जानन्नितीवास्य मनोहित विधिर्व्य॑धाद्विशाल हृदयं दयावत. ॥२३॥ तस्यैकमुच्चैर्भुजशीर्षमुद्वहन्सहेलमालम्बितभूत्रयो भुज । भूभारनिर्युक्तशिर सहस्रक फणीश्वर दूरमधश्चकार स ॥ २४ ॥ रेखात्रयेणेव जगत्त्रयाधिका निरूपयन्त निजरूपसपदम् । तत्कण्ठमालोक्य ममज्ज लज्जया विशीर्यमाण किल कम्बुरम्बुधौ॥२५॥ यन्निस्तुलेनापि तदाननेन्दुना व्यधात्तुलारोहणमुग्रपातकम् । अद्यापि हेमद्युतिरुद्यतस्ततो भवत्यसौ श्वित्रविपाण्डुर शशी ॥ २६ ॥ स्निग्धा बभुर्मूर्धनि तस्य कुन्तला, कलिन्दकन्याम्बुतरङ्गभङ्गुरा । फुल्लाननाम्भोरुहि सारसौरभे निलीननि.शब्दमधुव्रता इव ॥ २७ ॥ वज्राजसारैरिव वेधसा कृतं तमास्पद विक्रमसौकुमार्ययो । उर्व्या. कर ग्राहयितु न केवल बभूव वध्वा अपि वप्तुराग्रह ॥२८॥ त यौवराज्ये नयशीलशालिन व्यधात्तनूजं नवयौवन नृपः । प्रागेव लोकत्रयराज्यसपदा निधानमेन न विवेद भूपतिः ॥ २९ ॥ तस्मिन्गुणैरेव नियम्य कुर्वति प्रकाममाज्ञावशवर्तिनः परान् । आसीन्नृपोऽन्त.पुरसारसुन्दरीविलासलीलारसिक स केवलम् ॥ ३० ॥ १ पितु ७