पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। शृङ्गारवत्या दुहितु खयवरे प्रतापराजेन विदर्भभूभुजा । दूत कुमारानयनार्थमीरित समाययौ रत्नपुरप्रभोर्गृहम् ॥ ३१ ॥ भर्तु प्रतीहारनिवेदितस्तत प्रविश्य संसद्गृहमाहितानति. । भ्रूभेददत्तावसर स कर्णयो क्षरत्सुधासारमुवाच वाचिकम् ॥ ३२ ॥ कि चाग्रतस्तेन निरीक्ष्य भूपते कुमारमाकारविनिर्जितस्मरम् । तद्रूपशोभासुभगोऽम्य दर्शितो जगन्मनोलुण्ठनलम्पटः पट. ॥ ३३ ॥ पीयूषधारागृहमत्र नेत्रयोर्निरीक्ष्य कन्याप्रतिबिम्बमद्भुतम् । कि तथ्यमित्थ भवितेति चिन्तयन्पुरो नृप श्लोकमिम व्यलोकयत्३४ अस्याः स्वरूप कथमेणचक्षुषो यथावदन्यो लिखितुं प्रगल्भताम् । धातापि यस्याः प्रतिरूपनिर्मिती घुणाक्षरन्यायकृताकृतेर्जड ॥ ३५ ॥ ततोऽधिक विस्मितमानसो नृप सुतस्य तस्याश्च विलोक्य विग्रहम् । तच्चारुरूपासवपानघूर्णितोत्तमाङ्गसूचितमित्यचिन्तयत् ।। ३६ ।। य. स्वप्नविज्ञानगतेरगोचरश्चरन्ति नो यत्र गिर कवेरपि । यं नानुबध्नन्ति मन प्रवृत्तय स हेलयार्थो विधिनैव साध्यते ।। ३७ ॥ क्वाय जगल्लोचनवल्लभो युवा क्व कन्यकारत्नमतर्क्यमीदृशम् । तत्सर्वथा दुर्घटकर्मनिर्मितिप्रगल्भ्यमानाय नमोऽस्तु वेधसे || ३८ ॥ नून विहायैनमिय स्वयवरे वरार्थिनी नापरमर्थयिष्यति । इन्दु सदानन्दविधायिन विना किमन्यमन्वेति कदापि कौमुदी ॥३९॥ यत्कन्यकायामुपवर्ण्यते बुधै कुल च शील च वयश्च किंचन । सर्वत्र सबन्धविधानकारण प्रियस्य तत्प्रेम गुणैर्विशिष्यते ॥ ४० ॥ प्रत्यङ्गलावण्यविलोकनोत्सुक कृतस्पृहोऽस्या युवराजकुञ्जर । दृष्टयापि रागोल्बणया विभाव्यते करो यथान्तर्मददर्पदुःसह. ॥४१॥ इत्थं विचिन्त्यैष कृतार्थनिर्णयो नृपः सुत दारपरिग्रहक्षमम् । प्रस्थापयामास ससैन्यमादराद्विदर्भभूवल्लभपालितां पुरीम् ॥ ४२ ॥ राजा च दूतेन च तेन चोदितस्ततो ध्वजिन्या च मुदा च संयुत । रूपेण चास्यास्त्वरितस्मरेण च प्रभु प्रतस्थे स विदर्भमण्डलम् ॥४३॥