पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/८

एतत् पृष्ठम् परिष्कृतम् अस्ति

धर्मशर्माभ्युदयस्य विषयानुक्रमः । 1 सर्गः–मङ्गलाचरणानि । सज्जनदुर्जनादिवर्णनम् । जम्बुद्वीपवर्णनम् । कनकाद्रिवर्णनम् । भारतवर्षवर्णनम् । आर्यावर्तवर्णनम् । उत्तरको- शलाख्यदेशवर्णनम् । तत्र रत्नपुराख्यनगरवर्णनम् । २ सर्ग:-~-रत्नपुराधिपरिक्ष्वाकुवंशोद्भवस्य महासेननरपतेर्वर्णनम् । त- न्महिष्या सुव्रताया वर्णनम् । राज्ञ सुतप्राप्तिचिन्तावर्णनम् । त- दैव प्रचेतसाख्यस्य दिव्यमुनेरुद्यानपालमुखादागमनश्रवणम् । 3 सर्गः-परिकरसमेतस्य राज्ञो मुनिदर्शनार्थ गमनवर्णनम् । वनालीव- र्णनम् । उद्यानप्राप्तिवर्णनम् । तत्र मुनिवर्णनम् । मुनिमहीपालयो समागमवर्णनम् । मुनिसमीपे राज्ञ. पुत्रप्राप्तिचिन्ताानवेदनवर्णनम् । स्वगृहे पञ्चदशस्तीर्थकरो धर्मनाथ पुत्रत्वेनावतरिष्यति' इत्यादिमु- निवाक्यवर्णनम् । धर्मनाथस्य पूर्वजन्मविषये मुनि प्रति राज्ञ प्र. श्नस्य वर्णनम् । ४ सर्गः-धर्मनाथस्य प्राग्जन्मवृत्तान्तवर्णनोपक्रम । यातकीखण्डाख्य- द्वीपे वत्साख्यदेशवर्णनम् । तत्र सुसीमाख्यनगरीवर्णनम् । तत्र द. शरथाख्यमहीपतिवर्णनम् । एकदा रात्री महीपतिना उपरक्तश्चन्द्रो दृष्ट , त विलोक्य जगति कम्यापि श्री स्थिरा नास्ति' इति वि. चारयतो महीपतेर्वैराग्योदयस्य वर्णनम् । तृणवद्राज्य परित्यज्य तपसे यियासु राजान प्रति सुमन्त्राख्यस्य तन्मन्त्रिणश्चार्वाकम- नानुकूल उपदेश । गजकृत तत्खण्डन च । ततोऽतिरथाख्याय स्व- पुत्राय राज्यभार दत्त्वा नरपतिस्तपसे यन ययावित्यादि वर्ण- नम् । महीपतेस्तीव्रतपोवर्णनम् । तप.प्रभावात्स दिव्यता प्राप्त इति वर्णनम् । षण्मासानन्तर स एव तव महिष्या गर्भेऽवतरि- प्यति' इति मुनिवाक्यवर्णनम् । 5 सर्ग:--महासेननृपतिसभायामम्बरात्काश्चन लक्ष्मीसमेता दिव्याङ्गना अवतीर्णास्तासा वर्णनम् । किमर्थ युग्माकमागमनम्' इति ताः प्रति