पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। सुहृत्तमः सोऽथ सभालु हत्तमःप्रभाकरश्छेत्तुमिति प्रभाकर । धेरे क्षणं व्यापृतकधरेक्षण तमीश्वर प्राह जगत्तमीश्वरम् ॥ १५ ॥ पूर्वापराम्भोधितटीतरङ्गमालाग्ररङ्गत्कटकोऽयमद्रि । त्वत्सैनिकाक्रान्ततनुश्चकास्ति नम्रीभवन्नन्य इव क्षितीग. ॥ १६ ॥ अशेषसुरसुन्दरीनयनवल्लभोऽयं दध- न्मदान्धधनमुन्दरभ्रमरुचिः सहस्राक्षताम् । महावहनभक्तितो मुकुलिताग्रभास्वत्कर पुरस्तव पुरदरद्युतिमुपैति पृथ्वीधर ॥ १७ ॥ अनेकधातुच्छविभासुरा बलान्निवतिता' कुम्भभुवार्कमण्डलात् । अनेकधातुच्छविभा सुराबला न का श्रयत्यम्य वनाकुलास्तटी. ॥ १८ ॥ बिम्ब विलोक्य निजमुज्ज्वलरत्नमित्तौ क्रोधात्प्रतिद्विप इतीह ददौ प्रहारम् । तद्भग्नदीर्घदशन पुनरेव तोषा- ल्लीलालस स्पृशति पश्य गजः प्रियेति ।। १९ ।। पलाय्य निर्यन्मदवारिधारा गिरेरुपान्ते करिण प्रयान्त । त्वत्तूर्यनादैस्त्रुटितोरुमूला विभान्ति कूटा इव निर्लुठन्त ॥ २० ॥ न वप्रे नवप्रेमबद्धा भ्रमन्ती स्मरन्ती स्मर तीव्रमासाद्य भर्तु । क्षणादीक्षणादीश बाप्प वमन्ती दशा का देशाङ्कामिहान्वेति न स्त्री ॥२१॥ प्रकटितोरुपयोधरबन्धुरा सरमचन्दनसौरभशालिनी । मदनबाणगणाङ्कितविग्रहो गिरिरय भजते सुभगास्तटी ॥ २२ ॥ इयं गिरेर्गैरिकरागरञ्जिता विराजते गह्वरवारिवाहिनी । पविप्रहारत्रुटितोरुपक्षतिक्षताद्गलन्तीव नवास्रधोरणि ॥ २३ ॥ १ हृदयान्वकारदूरीकरणे सूर्य २ एतनामक ३ पर्वते जगञ्चन्द्रम् ५ पृथ्वीछन्दोऽपि ६ अनेक-धातु-च्छवि-भासुरा अगस्त्येन ८ अनेकधा- अतुच्छ विभा ९ देवागना १० दशमी कामदशाम् मरणमित्यर्थ ११ मदन- बाण पुष्पविशेष, कामशरश्च