पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। त्वत्सैनिकास्तुल्यमदुर्महाभयं निस्त्रिशचक्रेषुवराहवा नरा । नश्यत्सु सिंहादिषु तेन निर्भया निस्त्रिंशचक्रेषु वराहवानराः ॥३३॥ यो नारङ्ग सरल इति यो यश्च पुंनागनामा ज्ञात्वा वृक्ष. सरसपयसा पोषितः पालितश्च । गूढ सोऽपि प्रथयति निधि यत्प्ररोहाग्रहस्तै- स्तत्कि युक्त गिरिरयमिति व्याकुलो रोरवीति ॥ ३४ ॥ जराधवलमौलिभि प्रचुरसौविदल्लैरिव प्रफुल्लतरुभिर्वृता प्रणयिनामुनोत्सङ्गिता । परिष्वजति चन्दनावलिरियं भुजंगान्यत- स्ततोऽतिगहन स्त्रियश्चरितमत्र वन्दामहे ॥ ३९ ॥ र्मन्दाक्षमन्दा क्षणमत्र तावन्नेव्यापि न व्यापि मनोमवेन । रामा वरा मावनिरन्यपुष्टबध्या नेवध्वानवशा न यावत् ॥ ३६ ॥ कुपितकेसरिचक्रचपेटया करटिकुम्भतटादभिपातिता । इह विभान्ति तरुस्खलनच्युतस्फुरदुडुप्रकरा इव मौक्तिका ॥ ३७॥ प्रणयिनि नवनीवीग्रन्थिमुद्भिद्य लज्जा- विधुरसुरवधूना मोचयत्यन्तरीयम् । अधिरजनि गुहायामत्र रत्नप्रदीपे करकुवलयघाता सार्ध्वपार्थीभवन्ति ॥ ३८ ॥ नवो धनी यो मदनायको भवेन्न बोधनीयो मदनाय को भवे । स सुभ्रुवामत्र तु नेत्रविभ्रमैर्विबोध्यते सत्तिलकोऽपि कानने ॥ ३९ ॥ उद्भिद्य भीमभवसततितन्तुजाल मार्गेऽपवर्गनगरस्य नितान्तदुर्गे । निस्त्रिश खन्न १ निस्त्रिश-चक्र-इषु-वर-आहवा २ हिंस्रसमूहेषु ३ वराह- वानरा ४. लज्जाव्याकुला ५ नवीनापि ६ व्याप्ता ७ लक्ष्मीस्थानम् किलया ९ नवीनकूजिताधीना १. निष्फला भवन्ति ११ तरुण १२ ससारे १३ वृक्षविशेष स च नारीकटाक्षपातेन विकसितो भवतीति प्रसिद्धि .