पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

११ सर्ग: धर्मशर्माभ्युदयम् । ८१ इयमुदस्य करै परिचुम्बत सरसिजास्यमभून्न घनादरा । शरददत्त सुधाकरलालनासुखरता स्वरतापमतो रवेः ॥ ४६ ॥ किमपि पाण्डुपयोधरमण्डले प्रकटितामरचापनखक्षता । अपि मुनीन्द्रजनाय ददौ शरत्कुसुमचापमचापलचेतसे ॥ ४७ ॥ विघटिताम्बुपटानि शनै शनैरिह दधु पुलिनानि महापगा । नवसमागमजातह्रियो यथा स्वजघनानि घनानि कुलस्त्रिय ॥ ४८ ॥ म्फुरदमन्दतडिद्दयुतिभासुर शरदि शुभ्रमुदीक्ष्य पयोधरम् । कपिशकेसरकेसरिशङ्कया प्रतिनदन्ति न दन्तिगणा. क्षणम् ॥ ४९ ॥ कलमरालवधूमुखखण्डितं विपुलवप्रजले कमलाकरम् । निकटमप्यवधीरयति स्म साभिनवशालिवशालिपरम्परा ॥ ५० ॥ अयमनङ्गगजस्य मदाम्भसः परिमलो न तु शारदभूरुह । इयमैयस्त्रिपदी त्रुटिताभित कमलिनीमैलिनीविततिर्न तु ॥ ५१ ।। हृदयहारिहरिन्मणिकण्ठिकाकलितशोणमणीव नभःश्रिय । ततिरुदैक्षि जनै शुकपत्रिणा भ्रमवतामवतारितकौतुका ।। ५२ ॥ मरुति वाति हिमोदयदु सहे सहसि संततशीतभयादिव । हृदि समिद्धवियोगहुताशने वरतनोरतनोद्वसति स्मर ॥ १३ ॥ पतितमेव तदा हिममङ्गिना वपुषि कीर्तिहर शरदत्यये । शरणमुद्धतयौवनकामिनीस्तनभरो न भरोपचितो यदि ॥ ५४॥ बहलकुङ्कुमपङ्ककृतादरा मेदनमुद्रितदन्तपदाघरा. । तुहिनकालमतो घनकञ्चुका निजगदुर्जगदुत्सवमङ्गना ॥ ५५ ॥ अपि जगत्सु मनोभवतेजसा प्रवणयन्त्यतिरेकमनेकश' । हिममयानि तदा सवितुर्महोमहिमहानिमहानि वितेनिरे ॥ १६ ॥ स महिमोदयतः शिशिरो व्यधादपहृतप्रसरत्कमला प्रजा । इति कृपालुरिवाश्रितदक्षिणो दिनकरो न करोपचय दधौ ॥ १७ ॥ १ अभिनवशालिवशा-अलिपरम्परा २ सप्तच्छदवृक्षस्य ३ लोहसला. ४ श्र- मरीणि ५ सिक्थक . ६. मह महिम-हानिम्-अहानि