पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

प्रकटितपुलकेव सा स्रवन्ती विदलितशैवलराजिमञ्जरीभि । सरलिततरलोर्मिबाहुदण्डा प्रणयभरादिव दातुमङ्कपालिम् ॥ १४ ॥ स्मितमिव नवफेनमुद्वहन्ती प्रथममनल्पसरोजकल्पितार्धा । कलविहगरवैरिवालपन्ती व्यतनुत पाद्यमिवाम्बुभिर्वधूनाम् ॥१५॥ (युग्मम् ) उपनदि पुलिने प्रियस्य मुक्तामणिमयभूषणभाजि वक्षसीव । स्वयमुपरि निपत्य कापि रागान्मुहुरिह लोलयति स्म चञ्चलाक्षी ॥ १६ ॥ प्रणिहितमनसो मृगेक्षणाना चटुलविवर्तितनेत्रविभ्रमेषु । प्रविदधुरधिकस्पृहा ह्रदिन्या चलशफरीस्फुरिते क्षण युवा न ॥ १७ ॥ उपनदि नलिनीवनेषु गुञ्जत्यलिनि निमीलितलोचन कुरङ्ग । तटगतमपि नो ददर्श सैन्य नहि विषयान्धमति किमप्यवैति ॥ १८ ॥ कथमपि तटिनीमगाह्मानाश्चकितदृश प्रतिमाछलेन तन्व्यः । इह पयसि भुजावलम्बनार्थ समभिमृता इव वारिदेवताभिः ॥ १९ ॥ अधिगतनदमप्यगाधभावै सलिलविहारपरिच्छदं वहन्त्य । प्रणयिभिरथ धार्यमाणहस्ता प्रविविशुरम्भसि कातरास्तरुण्य ॥ २० ॥ अविरलपलितायमानफेन बलिनमिवोर्मिभिरङ्गमुद्वन्ती । जतुबहलवधूपढप्रहारैरजनि सरिजरती रुषेव रक्ता ॥ २१ ॥ ध्वनिविजितगुणोऽप्यनेकधाय रटति पुर कथमत्रपो मराल । इति समुचितवेदिनेव तन्व्या स्थितमिह वारिणि नूपुरेण तूष्णीम् ॥२॥ प्रसरति जललीलया जनेऽस्मिन्विसवदनो दिवमुत्पपात हस । नवपरिभवलेखभृन्नलिन्या प्रहित इवाशुमते प्रियाय दूतः ॥ २३ ॥ पृथुतरजघनैनितम्बिनीना स्खलितगति पयसामभूत्प्रवाह । अधिगतवनितानितम्बमार कथमथवा सरसः पुर प्रयाति ॥ २४ ॥ अपहृतवसने जडेन लौल्याज्जघनशिलाफलके नितम्बवत्या । करजलिपिपदात्तदाविरासीद्विषमशरस्य जगज्जयप्रशस्ति ॥ २५ ॥ कथमधिकगुण कर मृगाक्षी क्षिपति मयीह वनान्तमाश्रितायाम् । इति विदितपराभवेव लक्ष्मी सपदि सरोजनिवासमुत्ससर्ज ॥ २६ ॥१ बीबुकम्