पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
प्रथमोद्योतः


लोनचम्

धातात्पर्यशक्तिद्वयव्यतिरिक्ता तावत्तृतीयैव शक्तिस्तद्वाधकविधुरीकरणनिपुणा लक्षणा- भिधाना समुल्लसति ।

 नन्वेवं 'सिंहो बटुः' इत्यत्रापि काव्यरूपता स्यात् ; ध्वननलक्षणस्यात्मनोऽत्रापि समनन्तरं वक्ष्यमाणतया भावात् । ननु घटेऽपि जीवव्यवहारः स्यात् ; आत्मनो वि. भुत्वेन तत्रापि भावात् । शरीरस्य खलु विशिष्टाधिष्टानयुक्तस्य सत्यात्मनि जीवव्यव- हारः, न यस्य कस्यचिदिति चेत्-गुणालङ्कारौचित्यसुन्दरशब्दार्थशरीरस्य सति ध्व- ननाख्यात्मनि काव्यरूपताव्यवहारः । न चात्मनोऽसारता काचिदिति च समानम् । न चैवं भक्तिरेव ध्वनिः, भक्तिर्हि लक्षणाव्यापारस्तृतीयकक्ष्यानिवेशी। चतुर्थ्यां तु कक्ष्यायां ध्वननव्यापारः । तथा हि-त्रितयसन्निधौ लक्षणा प्रवर्तत इति तावद्भवन्त एव वदन्ति । तत्र मुख्यार्थबाधा तावत्प्रत्यक्षादिप्रमाणान्तरमूला। निमित्तं च यदभिधीयते सामीप्यादि तदपि प्रमाणान्तरावगम्यमेव ।

बालप्रिया

रणे बाधने निपुणा समर्था । समुल्लसति प्रवर्तते । तथा च तत्र लक्ष्यार्थस्य न बाधितत्वमिति भावः ।

 लक्षणाङ्गीकारेऽतिप्रसङ्गमाशङ्कते-नन्वेवमिति । 'आत्मनः अत्रापि भावात्' सत्वा- दिति सम्बन्धः । प्रतिबन्द्या उत्तरयति-ननु घटेऽपीति । तत्परिहारमाह-शरी- रस्येति। विशिष्टेति । करचरणाद्यवयवैर्विशिष्टं यदधिष्ठानं संस्थानं तेन युक्तस्य । तुल्यमुत्तरमस्माकमित्याह-गुणेति । गुणालङ्काराणामौचित्येन रसविषयकेण सुन्दरौ शब्दार्थावेव शरीरं तस्य । न चेत्यादि । इति च समानमिति । यथाऽऽत्मनो निस्सारघटादिसम्बन्धित्वेऽपि नासारता काचित् , तथा ध्वननाख्यात्मनो लौकिकवाक्ये सत्त्वेऽपि नासारता कापीत्यर्थः । नन्वेवं भक्तिरेव ध्वनिः स्यादित्याशङ्कय परिहरति- न चैवमित्यादि । एवं लक्षणास्थले ध्वननसद्भावे सति । 'ध्वनिर्न चेत्यन्वयः । अत्र हेतुमाह-भक्तिर्हीति । भिन्नकक्ष्यानिविष्टत्वादुभयोर्विषयभेदो यतः, तस्मादित्यर्थः । त्रितयसन्निधाविति । मुख्यार्थबाधादित्रये सतीत्यर्थः । भवन्त एव वदन्तीति । लक्षणाध्वननयोरभेदं वदन्तो भवन्त एवाहुरित्यर्थः । 'भवतां मतमिति च पाठः । मु- ख्यार्थबाधादिषु त्रिष्वन्त्यस्य ध्वनिव्यापारमात्रगम्यत्वं साधयिष्यन्नादावाद्ययोरन्यसि- द्धत्वमाह-तत्रेत्यादिना । अभिधीयत इति । “अभिधेयेन सामीप्यादि" त्यादिव- चनेनोच्यत इत्यर्थः ।

 एवं बाधानिमित्तयोरन्यविषयत्वमुक्त्वा प्रयोजनस्यानन्यविषयत्वं स्वरूपकथ-


 १. विभुत्वश्च सर्वमूर्तसंयोगित्वम् । मूर्तानि तु पृथिवीजलतेजोवायुमनांसि ।

 २. रसनलोचनादीन्द्रियैर्मनसा तत्तदवयवैश्चेत्यर्थः ।