पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
सटीकलोचनोपेतध्वन्यालोके


एवं वाच्यव्यतिरेकिणो व्यङ्गथस्य सद्भावं प्रतिपाद्य प्राधान्यं तस्यै-


लोचनम्

मार्गा गृह्यन्ते । प्रकृष्टं गीतं गानं येषां ते प्रगीताः, गातुं वा प्रारब्धा इत्यादिकर्मणि ततः । प्रारम्भेण चात्र फलपर्यन्तता लक्ष्यते ॥ ७ ॥

 एवमिति । स्वरूपभेदेन भिन्नसामग्रीज्ञेयत्वेन चेत्यर्थः । प्रत्यभिज्ञेयावि

बालप्रिया

गातुं वेति । श्रादिकर्मणीति । प्रारम्भरूपार्थ इत्यर्थः । फलेति । फलमत्र स्वरा. दिसाक्षात्कारः ॥ ७ ॥

 एवमित्यनेन सन्निहितमात्रपरामर्शभ्रमः स्यादतो व्याचष्टे-स्वरूपभेदेनेत्या


मध्यमा, गान्धारोदीच्यवा, रक्तगान्धारी, कैशिकी, मध्यमोदीच्यवा, कार्मारवी, गान्धा- रपञ्चमी, आन्ध्री, नन्दयन्ती इति । तत्रादितरसप्त शुद्धजातयः षड्जग्रामस्य, अव- शिष्टाश्च मध्यमग्रामस्येति विवेकः ।

 अत्र सर्वासामपि जातीनामंशा बहवो भवन्ति । ‘स रि ग म प ध नि' इति स्वरविशेषाणामेव अंश इति संज्ञा । काश्चन जातय एकांशाः, ( अर्थात् एकः खरः अंशो यांसां ताः ), अपराश्च द्वयंशाः, अन्याश्च त्र्यंशा इत्येवमादिविभागो भरत- नाट्य शास्त्रादौ दर्शितः ।

 सुखेन तदवगमायाधः पट्टिका प्रदर्यते-

जातिनामानि अंशाः जातिनामानि अंशाः १ षाड्जी १० षड्जमध्यमा सरिगमपधनि रिधनि ११ गान्धारोदीच्यवा ३ गान्धारी सगमपनि १२ रक्तगान्धारी सगमपनि ४ मध्यमा सरिमपध सगमपधनि रिप १४ मध्यमोदीच्यवा रिध १५ कार्मारवी रिपधनि ७ नैषादी सगनि १६ गान्धारपञ्चमी षड्जकैशिकी १७ आन्ध्रो रिगपनि ९ षड्जोदीच्यवा समधनि १८ नन्दयन्ती

 एवं द्वैग्रामिकीनां सर्वासामपि जातीनां त्रिषष्टिरंशा विज्ञेयाः । एतेषां स्वरूपं भर- तनाट्यशास्त्रस्याष्टांविशेऽध्याय निरूपितं, तत एवावगन्तव्यम् ।

 स्वरगतप्रतिपादितजातिजन्यत्वेन प्रसक्ता ग्रामरागाः, भाषाः, विभाषाः, आन्त- रभाषाः देशीमार्गादयः । तेषां स्वरूपं सङ्गीतरत्नाकरस्य रागविवेकाध्यायतोऽवगन्त- विस्तरभिया नेह प्रदर्यत इति ।

१. "आदिकर्मणि क्तः कर्तरि चे"(पा.सू., ३.४.७१. )ति सूत्रेणेत्यर्थः । सगमपध २ आर्षभी सम ५ पञ्चमी १३ कैशिकी प ६ धैवती ८ प सगप प व्यम् ,