पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५५
प्रथमोद्योतः


लोचनम्

नस्वार्थविश्रान्त्यभावात् । न च विभावादिप्रतिपादने बाधकं किञ्चिदस्ति ।

 नन्वेवं धूमावगमनानन्तराग्निस्मरणवद्विभावादिप्रतिपत्यनन्तरं रत्यादिचित्तवृत्तिप्र- तिपत्तिरिति शब्दव्यापार एवात्र नास्ति । इदं तावदयं प्रतीतिस्वरूपज्ञो मीमांसकः प्रष्टव्यः-किमत्र परचित्तवृत्तिमात्रे प्रतिपत्तिरेव रसप्रतिपत्तिरभिमता भवतः ? न चैवं भ्रमितव्यम् ; एवं हि लोकगतचित्तत्यनुमानमात्रमिति का रसता ? यस्त्वलौकिकच. मत्कारात्मा रसास्वादः काव्यगतविभावादिचर्वणाप्राणो नासौ स्मरणानुमानादिसाभ्येन खिलीकारपात्रीकर्तव्यः । किं तु लौकिकेन कार्यकारणानुमानादिना संस्कृत हृदयो विभा. वादिकं प्रतिपद्यमान एव न ताटस्थ्येन प्रतिपद्यते, अपि तु हृदयसंवादापरपर्यायसह-

बालप्रिया

तमिति । बीजमित्यर्थः । 'बीजं जीवितमि' च पाठः। कुत इत्यत्राह-सतीत्यादि । तस्मिन्निति । मुख्यार्थबाध इत्यर्थः। समानेऽपि स्वार्थाभिधानसामर्थ्ये धूमशब्दस्स्वार्थे विश्राम्यति । 'गजायां घोष' इत्यत्र गङ्गाशब्दो नेत्यत्र मुख्यार्थबाध एव हेतुरतस्स एव लक्षणाबीजमित्यर्थः । तर्हीहापि मुख्यार्थबाधो लक्षणा च स्यात् , नेत्याह-न चेति ।

 प्रसङ्गादनिष्टमाशङ्कते-नन्वेवमित्यादि । विभावादिप्रतीत्यनन्तरभाविनो रत्या. दिप्रतीतिर्धूमादिप्रतीतिजन्याग्न्यादिस्मृतिसमानैवेति सा शब्दव्यापारजन्या न भवति दूरे तस्या व्यञ्जनाजन्यत्वमित्यर्थः। विमता रत्यादिप्रतीतिर्न शाब्दी, शब्दजन्यार्थ. प्रतीतिजन्यत्वात् , धूमशब्दजनितार्थप्रतीतिजन्याग्न्यादिस्मृतिवदिति प्रयोगः। किमत्र परकीयरत्यादिचित्तवृत्तिप्रतीतेःशब्दव्यापाराजन्यत्वं सिषाधयिषितं ? किं वा रसप्रतीतेः? आद्ये सिद्धसाधनम् ; द्वितीये रसप्रतीतेरितरप्रतीतिवैलक्षण्येन दृष्टान्ताभावो दोष इत्याश. येन सोपहासं पृच्छन्नाह-इदमित्यादि । प्रश्नं विवृणोति-किमित्यादि । अत्रेति । काव्य इत्यर्थः । न चेति । एवं भ्रमो न कर्तव्य इत्यर्थः । कुत इत्यत्राह-एवं ही- त्यादि । एवं लौकिकचित्तवृत्तिप्रतीतेरेव रसत्वाङ्गीकारे सति । मात्रमित्यनन्तरं रस- प्रतीतिरिति शेषः । का रसतेति । रसनीयतानिमित्तको हि रसशब्दव्यवहारः । न चानुमितिरूपायाः प्रतीतेः रसनीयत्वमस्ति वह्नयाद्यनुमितिष्वनुपलम्भादित्यर्थः। का तर्हि रसप्रतीतिरित्यत आह-यस्त्वित्यादि । अलौकिकेत्यनेन लौकिकसुखास्वादो व्याव- र्त्य॑ते । अलौकिकत्वे हेतुं दर्शयस्तस्य कारणमाह-काव्येति । नासाविति । असौ रसास्वादः । स्मरणानुमानसाम्येनेत्यस्य खिलीकारेऽन्वयः । लौकिकेनेति लोके भव- तेत्यर्थः । कार्येति । कार्य वढ्यादेर्धूमादि, रत्यादिचित्तवृत्तेः कटाक्षादि । कारणं वह्न्यादि, रत्यादि च कार्येण यत् कारणस्यानुमानं, आदिपदेनार्थापत्तेस्सङ्ग्रहः । तेन संस्कृतहृदय इत्यनेन तत्संस्कारोऽपि प्रतिपत्तुः रसप्रतीतावुपयोगीति दर्शितम् । विभा. वादिकमिति । प्रमदादिकमित्यर्थः । प्रतिपद्यमान एवेति । काव्यान्नाट्याद्वेति शेषः । ताटस्थ्येनेति । अन्यदीयत्वेनेत्यर्थः । न प्रतिपद्यत इत्यत्रापि विभावादिक. मित्यस्य सम्बन्धः। कथन्तर्हि तत्प्रतीतिरित्यत आह-अपि त्वित्यादि । हृदयेति ।