पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९७
तृतीयोद्द्योतः

प्रातुं धनैरर्थिजनस्य वाञ्छां देवेन सृष्टो यदि नाम नास्मि ।
पथि प्रसन्नाम्बुघरस्तडागः कूपोऽथवा किं न जडः कृतोऽहम्॥१॥

 अत्र हि जड इति पदं निर्विण्णेन वक्रात्मसमानाधिकरणतया प्रयु- क्तमनुरणनरूपतया कूपसमानाधिकरणतां स्वशक्त्या प्रतिपद्यते ।

 तस्यैव वाक्यप्रकाशता यथा हर्षचरिते सिंहनादवाक्येषु-'वृत्तेऽस्मि- न्महाप्रलये धरणीधारणायाधुना त्वं शेषः' ।

 एतद्धि वाक्यमनुरणनरूपमर्थान्तरं शब्दशक्त्या स्फुटमेव प्रकाशयति ।


लोचनम्

योगेनेत्यर्थः । अस्मीति । अन्यो हि तावदवश्यं कश्चित्सृष्टो न त्वहमिति निर्वेदः । प्रसन्नं लोकोपयोगि अम्बु धारयतीति। कूपोऽथवेति । लोकैरप्यलक्ष्यमाण इत्यर्थः । आत्मसमामाधिकरणतयेति । जडः किङ्कर्तव्यतामूढ इत्यर्थः, अथ च कूपो जडोs र्थिता कस्य कीदृशीत्यसम्भवद्विवेक इति। अत एव जडः शीतलो निर्वेदसन्तापरहितः। तथा जडः शीतजलयोगितया परोपकारसमर्थः । अनेन तृतीयार्थेनायं जडशब्दस्तटा- कार्थेन पुनरुक्तार्थसम्बन्ध इत्यभिप्रायेणाह-कूपसमानाधिकरणतामिति । स्व- शक्त्येति शब्दशक्त्युद्भवत्वं योजयति । महाप्रलय इति । महस्य उत्सवस्य आस- मन्तात्प्रलयो यत्र तादृशि शोककारणभूते वृत्ते धरण्या राज्यधुराया धारणायाश्वासनाय त्वं शेषः शिष्यमाणः । इतीयता पूर्णे वाक्यार्थे कल्पावसाने भूपीठभारोद्वहनक्षम एको

बालप्रिया

इत्यनेन गम्यमर्थमाह-अन्यो हीत्यादि । लोकोपयोगीति । लोकैरित्यादि च गम्यार्थविवरणम् । 'आत्मसमानाधिकरणतये ति प्रतीकधारणमादावस्मदर्थान्वयो बड- पदार्थो विवरिष्यत इति ज्ञापनाय । तमर्थमाह-किंकर्तव्यतामूढ इति । कूपान्व. यिनं व्यङ्गयमर्थमाह-अथ चेत्यादि । अत्रार्थान्तरञ्चाह-अत एवेत्यादि । अत एव विवेकाभावादेव । शीतल इति । “शिशिरो जड' इत्यमरः । अनेन गम्य- मर्थमाह-निवेदेति । लडयोरभेदाज्जडपदं जलमयार्थकञ्चेत्याह-तथेत्यादि । वृत्तौ 'कूपसमानाधिकरणतां प्रतिपद्यत' इत्यनेन जडपदस्य कूपपदसामानाधिकरण्यमेवोक्तन्न तु तटाकपदसामानाधिकरण्यमपि, तत्कुत इति शङ्कां परिहरंस्तद्ग्रन्थमवतारयति- अनेनेत्यादि । अनेन तृतीयार्थेनेति । कूपान्वयित्वेनोक्तेष्वर्थेषु तृतीयेन शीतजल- वाहितयेत्याद्युक्तेनार्थेन हेतुनेत्यर्थः । तटाकार्थेनेति । तेन सहेत्यर्थः । पुनरुक्तेति । 'प्रसन्नाम्बुधर' इति विशेषणार्थस्यैवोकत्या पुनरुक्तार्थसम्बन्धस्स्यादित्यर्थः ।स्व- शक्त्यै त्यत्रान्यथाप्रतिपत्तिनिरासायाह-शब्देत्यादि । वाच्यार्थमाह-महस्येत्यादि । अस्मिन्नित्यस्य विवरणम्-शोकेत्यादि । वृत्ते जाते । व्यङ्गयमर्थान्तरन्दर्शयति-

 ३८ ध्व