पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६६
सटीकलोचनोपेतध्वन्यालोके


व्याध्यादीनां तेषाञ्च तदङ्गानामेवादोषो नातदङ्गानाम् । तदङ्गत्वे च सम्भवत्यपि मरणस्योपन्यासो न ज्यायान् । आश्रयविच्छेदे रसस्यात्यन्त- विच्छेदप्राप्तेः । करुणस्य तु तथाविधे विषये परिपोषो भविष्यतीति चेत् - न; तस्याप्रस्तुतत्वात् प्रस्तुतस्य च विच्छेदात् । यत्र तु करुणरसस्यैव काव्यार्थत्वं तत्राविरोधः । शृङ्गारे वा मरणस्यादीर्घकालप्रत्यापतिसम्भवे कदाचिदुपनिबन्धो नात्यन्तविरोधी । दीर्घकालप्रत्यापत्तौ तु तस्यान्तरा प्रवाहविच्छेद एवेत्येवंविधेतिवृत्तोपनिबन्धनं रसबन्धप्रधानेन कविना परिहर्तव्यम् ।


लोचनम्

तत्र प्रथमं स्वाभाविकप्रकारं निरूपयति-तदङ्गानामिति । निरपेक्षभावतया सापे. क्षभावविप्रलम्भशृङ्गारविरोधिन्यपि करुणे ये व्याध्यादयस्सर्वथाङ्गत्वेन दृष्टाः तेषामिति । ते हि करुणे भवन्त्येव त एव च भवन्तीति । शृङ्गारे तु भवन्त्येव नापि त एवेति । अतदङ्गानामिति । यथालस्यौप्रजुगुप्सानामित्यर्थः । तदङ्गत्वे चेति । 'सर्व एव शृङ्गारे व्यभिचारिण इत्युक्तत्वादिति भावः । आश्रयस्य स्त्रीपुरुषान्यतरस्याधिष्ठानस्या- पाये रतिरेवोच्छिद्येत तस्या जीवितसर्वस्वाभिमानरूपत्वेनोभयाधिष्ठानत्वात् । प्रस्तु- तस्येति । विप्रलम्भस्येत्यर्थः । काव्यार्थत्वमिति । प्रस्तुतत्वमित्यर्थः । नन्वेवं सर्व एव व्यभिचारिण इति विघटितमित्याशङ्कयाह-शृङ्गारे वेति । अदीर्घकाले यत्र मरणे विश्रान्तिपदबन्ध एव नोत्पद्यते तत्रास्य व्यभिचारित्वम् । कदाचिदिति । यदि तादृशीं भङ्गिं घटयितुं सुकवेः कौशलं भवति । यथा-

 तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोर्दैहन्यासादमरगणनालेख्यमासाद्य सद्यः ।

बालप्रिया

विरोधिरसाङ्गत्वं प्रकृतरसाङ्गत्वं च दर्शयति-निरपेक्षभावतयेत्यादि । ते हीति । व्याष्यादयो हीत्यर्थः । करुणे इत्यादि। करुणे भवन्त्येव ते एव भवन्तीति द्वेधा नियम इत्यर्थः । नापीत्यादि । ते एवेति नियमोऽपि नेत्यर्थः । मरणस्य विप्रलम्भा- ङ्गत्वसम्भवे मानमाह- -सर्व इत्यादि । आलस्यौग्यजुगुप्सावर्जास्सर्वं एव व्यभिचा. रिण इति मुनिना उक्तत्वादित्यर्थः । आश्रयविच्छेद इत्यादिग्रन्थं व्याचष्टे-आश्र- यस्येत्यादि । वृत्तौ-'श्रृङ्गारे वे'त्यादि। 'मरणस्येति । नायकयोरेकस्य यन्मरणं तस्ये. त्यर्थः । अस्य उपनिबन्ध इत्यनेन सम्बन्धः । 'अदीर्घेति । मरणादूर्ध्वमदीर्घो यः कालस्तस्मिस्तेन वा प्रत्यापत्तिः नायकयोः समागमस्तत्सम्भवे सतीत्यर्थः । लोचने भावमाह-यत्रेत्यादि । विश्रान्तिपदद्वन्धः प्रतीतिविश्रान्तेः प्रतिष्ठा । तत्र तथा- विधस्थले । अस्य मरणस्य । काव्यानुशासनेऽप्येवमुक्तम्-"शृङ्गारे तु मरणाध्यवसायो