पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९३
तृतीयोद्द्योतः


वामे नात्र वटस्तमध्वगजनः सर्वात्मना सेवत

न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे ॥

 न हि वृक्षविशेषेण सहोक्तिप्रत्युक्ती सम्भवत इत्यविवक्षिताभिधेयेनै- वानेन श्लोकेन समृद्धासत्पुरुषसमीपवर्तिनो निर्धनस्य कस्यचिन्मनस्विनः परिदेवितं तात्पर्येण वाक्यार्थीकृतमिति प्रतीयते ।

विवक्षितत्वाविवक्षितत्वं यथा-

उप्पहजाआऍ असोहिणीऍ फलकुसुमपत्तरहि आए ।
वेरीऍ वइं देन्तो पामर हो ओहसिज्जिहसि ॥


लोचनम्

यावत् । साधुविदितमित्युत्तरम् । कस्मादिति वैराग्ये हेतुप्रश्नः। इदं कथ्यत इत्यादिसनिर्वेदस्मरणोपक्रम कथंकथमपि निरूपणीयतयोत्तरम्। वामेनेति । अनुचितेन कुलादिनोपलक्षित इत्यर्थः । वट इति । च्छायामात्रकरणादेव फलदानादिशून्यादुद्ध. रकन्धर इत्यर्थः । छायापीति । शाखोटको हि स्मशानाग्निज्वालालीढलतापल्लवा- दिस्तरूविशेषः।

 अनाविवक्षायां हेतुमाह-न हीति । समृद्धो योऽसत्पुरुषः। 'समृद्धसत्पुरुष'

बालप्रिया

विशेषेण । इदं कथ्यत इति कथनप्रतिज्ञाभिप्रायमाह-सनिर्वेदेत्यादि। स्मृतिविषयव- स्तुनो निर्वेदप्रदत्वात्स्मरणसहभावी निर्वेद इति सनिर्वेदत्वं स्मरणस्य । निरूपणोद्यत. येति निरूपणमुचितवचनपर्यालोचनम् । उत्तरमिति । इदं कथ्यत इत्यादीत्यस्यानेन सम्बन्धः । वामेनेत्येतत् प्रस्तुतार्थे योजयति-अनुचितेनेत्यादि । वटशब्देनार्थ- शक्तिबलेन गम्यमर्थमाह-छायेत्यादि । शून्यादिति । करणादित्यस्य विशेषणम् ।

 अत्रेति कस्त्वमित्यायुदाहरण इत्यर्थः । वृत्तौ-'उत्पथेति। हे पामर तथाभूताया बदर्याः वृति ददात्त्वं जनैरपहसिष्यस इत्यन्वयः । बदरी वृक्षविशेषः । "प्राचीनं प्रान्ततो वृति"रित्यमरः । सम्भवीत्यस्यानन्तरं न चासम्भवीति च क्वचित्


 १. शाखोटको भूतावासवृक्ष इति नागोजिभट्टप्रभृतयः। सिहोरेति उत्तरभारते प्रसिद्धः क्षुद्रवृक्षस्तुच्छच्छाय इति वैद्यविद्याविदः । शाखोटः पीतफलको भूतावासः रवरच्छदः । शाखोटोरक्तपित्तार्शोवातस्लेष्मातिसारछित् ॥ इति निघण्टुश्च । भट्टोक्तिस्तु भ्राभिका भूतावाससा कलिद्रुमेऽपि प्रसिद्धः ।