पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१९
तृतीयोद्द्योतः


दनाख्येयत्वं सर्वशब्दागोचरत्वेन न कस्यचित्सम्भवति । अन्ततोऽना. ख्येयशब्देन तस्याभिधानसम्भवात् । सामान्यसंस्पर्शिविकल्पशब्दागोच- रत्वे सति, प्रकाशमानत्वं तु यदनाख्येयत्वमुच्यते क्वचित् तदपि काव्यवि. शेषाणां रत्नविशेषाणामिव न सम्भवति । तेषां लक्षणकारैर्व्याकृतरूपत्वात् । रत्नावशेषाणां च सामान्यसम्भावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च । उभयेषामपि तेषां प्रतिपत्तृविशेषसंवेद्यत्वमस्त्येव । वैकटिका एव हि रत्नत- त्त्वविदः, सहृदया एव हि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः ।

 यत्त्वनिर्देश्यत्वं सर्वलक्षणविषयं बौद्धानां प्रसिद्धं तत्तन्मतपरीक्षायां ग्रन्थान्तरे निरूपयिष्यामः । इह तु ग्रन्थान्तरश्रवणलवप्रकाशनं सहृदय. वैमनस्यप्रदायर्याति न प्रक्रियते । बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथास्माकं ध्वनिलक्षणं भविष्यति । तस्माल्लक्षणान्तरस्याघटनादशब्दा.


लोचनम्

क्त्यम् । ताविति शब्दगतोऽर्थगतश्च । विवेकस्यावसादो यत्र तस्य भावो निर्विवेक- त्वम् । सामान्यस्पर्शी यो विकल्पस्ततो यः शब्दः दृष्टान्तेऽपि अनाख्येयत्वं नास्तीति दर्शयति-रत्नविशेषाणां चेति । ननु सर्वेण तन्न संवेद्यत इत्याशङ्कयाभ्युपगमे- नैवोत्तरयति-उभयेषामिति । रत्नानां काव्यानां च ।

 ननु नार्थ शब्दाः स्पृशन्त्यपीति, अनिर्देश्यस्य वेदकमित्यादौ कथमनाख्येयत्वं वस्तूनामुक्तमिति चेदत्राह-यत्त्विति । एवं हि सर्वभाववृत्तान्ततुल्य एव ध्वनिरिति ध्वनिस्वरूपमनाख्येयमित्यतिव्यापकं लक्षणं स्यादिति भावः। ग्रन्थान्तर इति विनि- श्वयटीकायां धर्मोत्तर्या या विवृतिरमुना ग्रन्थकृता इता तत्रैव तद्व्याख्यातम् ।

बालप्रिया

वसादभावत्यंशं व्याचष्टे-विवेकस्येत्यादि । सामान्येत्यादिकं विवृणोति--सामा. न्येत्यादि । सामान्यसंस्पर्शीति । जात्यादिसामान्यावमाहीत्यर्थः । विकल्प इति । सविकल्पकज्ञानमित्यर्थः । ततो यश्शब्द इति । तद्धेतुको व्यवहारात्मको यश्शब्द इत्यर्थः । नास्तीति दर्शयतीति । रत्नविशेषाणां जात्यत्वादिसामान्यस्य सम्भाव- नयैव मूल्यपरिकल्पनाया दर्शनादिति भावः । तदिति । जात्यत्वं चारुत्वष्चेत्यर्थः ।

 तद्ग्रन्थान्तरे निरूपयिष्याम इत्युक्त्या सूचितमनिर्देश्यत्वरूपलक्षणस्य दोषं दर्श- यति-एवं हीत्यादि । सर्वभागेति । सर्वपदार्थत्यर्थः । इति लक्षणमतिव्यापकं स्यादिति सम्बन्धः । मयैवेत्यर्थ इति । अनेन 'अनाख्येयेत्यादेः परिकरश्लोकत्वं दर्शितम् । अनाख्येयांशस्येति । अनाख्येयो योऽशः स्वरूपांशः तस्येत्यर्थः । भास इति । क्वचित् ग्रन्थे भाव इति च पाठः । तत्पक्षे अनाख्यैैयांशभावित्वमिति श्लोके