पृष्ठम्:नवरात्रप्रदीपः.djvu/१३०

पुटमेतत् सुपुष्टितम्
८५
बलिदाननिर्णयः

अष्टम्यामपि बलिदानं विश्वरूपे श्रूयते -

 ततो रात्र्यपरे भागे महिषं तत्र दापयेत् ।
 पञ्चाऽब्दलक्षणोपेतमजमेकं तथैव च ॥

भविष्येऽपि -

 विचित्रां रचयेत्पूजामष्टम्यामुपवासयेत् ।
 दुर्गाऽग्रतोजपन्मन्त्रमेकचित्तो धृतव्रतः ॥
 तदद्वर्यामिनीशेषे विजयार्थं महीपतिः ।
 पञ्चाऽब्दलक्षणोपेतं गन्धपुष्पस्रगन्वितम् ॥
 विधिवत्कालिकालीति जप्त्वा खड्गेन घातयेत् ।। इति ।

देवीपुराणेऽपि -

 आश्विने मासि सम्प्राप्ते महिषासुरमर्द्दिनीम् ।
 देवीं सम्पूजयित्वा ये अर्द्धरात्रेऽष्टमीषु च ॥
 घातयन्ति पशून् भक्या ते भवन्ति महाबलाः ।

अत्रैवं व्यवस्था - अष्टम्यां बलिदानप्रतिपादकानि सर्वाणि वचनानि राजविषयाणि । “विजयार्थं महीपतिः” इति विशेषवचनात् । इतराणीतरविषयाणि । सामान्य-