पृष्ठम्:नवरात्रप्रदीपः.djvu/१८

पुटमेतत् सुपुष्टितम्
१२
नवरात्रप्रदीपभूमिकायाम्-

वचनाना तत्तत्पक्षेऽभिनिवेशं दधद्भिर्निबन्धनिबन्धृभिरुपन्यस्तानामनाकरत्व वक्तुं शक्यते, तथाऽपि देवीपुराणगतस्य सर्वैराद्रियमाणस्य साक्षात्परिदृश्यमानवचनस्यानाकरत्वं शङ्कितुमपि न शक्यते । तद्वचनं यथा--

आश्विनस्य सिते पक्षे प्रतिपत्सु यथाक्रमम् ।
सुस्नाततिलतैलेन पूर्वाह्णे पूजयेच्छिवाम् ॥ इति ।

 अत्र बहुवचनाऽनुपपत्तेः क्रमविधानाच्च प्राणभृदादिवल्लिङ्गसमवायेन प्रतिपच्छब्दः प्रतिपदादितिथिनवके गौणः । तथा रुद्रयामलेऽपे नवरात्रप्रक्रमे

प्रत्यहं पूजनं कुर्यात्त्रिकाल भक्तितत्परः ।
अष्टम्यां जागरं चैव महापूजनपूर्वकम् ॥

 इति वचनेन प्रातर्मध्याह्नसायङ्कालानां कर्मकालत्वे सुतरां प्रतिपन्नं प्रातःकालस्य कर्मकालत्वम् । किं च डामरकल्पे यन्त्रोद्धारे कलशस्थापनपूर्वकं कलशोपरिस्थे यन्त्रे दुर्गापूजा कार्येत्युक्तम् । तथाहि--

शृणु राजन् ! प्रवक्ष्यामि चण्डिकायन्त्रमुत्तमम् ।
आश्विनस्य सिते पक्षे प्रतिपत्सु यथाक्रमम् । ।
सुस्नातस्तिलतैलेन पूर्वाह्ने च नृपोत्तम ! ।
पुण्याहवाचनं कृत्वा द्विजांश्चैव तु पूजयेत् ॥
ततश्च कारयेद्वेदिं सप्तधान्ययुतां नृप !।
स्थापयेत्पूर्णकलशं पञ्चरत्नसमन्वितम् ।
वस्त्रे चारक्तके चैव संल्लिखेद्यन्त्रमुत्तमम् ॥ । इति ।