पृष्ठम्:नवरात्रप्रदीपः.djvu/२७

पुटमेतत् सुपुष्टितम्
२१
ग्रन्थपरिचयः

एवं सति यत्र हि महाकालमहाकल्योः सामरस्यं जायते तादृशयोगयुक्त कालममाविद्धप्रतिपदं विहाय द्वितीयाविद्धामेव प्रतिपदं देवीपूजनेऽङ्गीकुर्वन्ति ते कथं ज्ञापयितव्याः । भवतु । अत्राऽन्यदपि रहस्यतमं वर्तते परं तस्य गुरुमुखैकसंवेद्यत्वेनाऽतिगोपनीयत्वेन तल्लेखनमनुचितमिति नाऽत्र तल्लिख्यते । जिज्ञासुभिर्गुरुमुखात्स्वाऽनुभूत्या चाऽवगन्तव्यमित्येवालम् ।

 एवं च ये हि माधवाचार्यनन्दपण्डितरघुनाथभट्टादयः अमाविद्धप्रतिपदं मुख्यतया ग्राह्यां मन्यन्ते देवीनवरात्रे, तथैव तत्र प्रधानभूते देवीपूजने प्रदोषकालस्यैव मुख्यकर्मकालत्वं मन्यन्ते नवरात्रव्रतस्य च नक्तव्रतत्वं साधयन्ति तन्मते, ये च शङ्करभट्टकमलाकरभट्टनीलकण्ठभट्टभानुभट्टादयः द्वितीयाविद्धां प्रतिपदं मुख्यतया ग्राह्यां मन्यन्ते प्रधानभूते देवीपूजने च पूर्वाह्णस्यैव मुख्यकर्मकालत्वं मन्यन्ते नवरात्रव्रतस्य च नक्तव्रतत्वं न मन्यन्ते तन्मते च कियदन्तरमिति पण्डिता एव विचारयन्तु । ननु शङ्करभट्टकमलाकरभट्टसदृशानां विदुषां कथमत्रैतादृश आग्रह इति चेत् न किञ्चिदेतत् । यतो हि--

ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥

 इति स्थित्या तत्र नाश्चर्यलेशाऽवकाशः । इत्थं समालोचितं सङ्क्षेपेण प्रतिपन्निर्णयवादस्थलम् । अत्र बहुवक्तव्येऽपि विस्तरभियैतावतैव विरम्यते ।

 अतः परं द्वितीयं महद्वादस्थलं पारणानिर्णयः समालोच