पृष्ठम्:नवरात्रप्रदीपः.djvu/३४

पुटमेतत् सुपुष्टितम्
२८
नवरात्रप्रदीपभूमिकायाम्-

च तेन सर्वदा सर्वथा च वर्तनीयमित्यस्ति तेन च यैः परम्परया दशम्यां पारणां विधीयते तैर्दशम्यामेव कार्या न नवम्याम् । यैश्च निजकुलपरम्परया नवम्यां क्रियते तैर्नवम्यामेव कार्या न दशम्याम् इत्यपि वर्तते, तथाऽपि चेदमवश्यं समालोचनीयं यद्ग्रन्थतो युक्तितश्च किं युक्तमिति तत्र च ग्रन्थानां प्रामाण्यं ग्रन्थे समुपात्तप्रमाणाऽधीनम् । ग्रन्थकृतो हि स्वपक्षस्थापनाय परपक्षखण्डनाय च प्रवृत्ता रागद्वेषाSभिनिविष्टचेतसः सर्वाणि वचनानि तत्र विरुद्धान्यपि स्वमताऽनुकूलं व्याख्यापयन्ति । अतिविरुद्धानि तु निर्मूलतामारोप्य बहिर्यापयन्ति । इत्थं सति कः पक्षः समुचित इति निर्णयकरणमतिकठिनमेव । तथाऽपि यथामनीषं किं चित्सङ्क्षेपतो विचार्यते । इदं प्रथमतोऽवधेयं यत् द्वयोरपि मते नत्ररात्रशब्दे रात्रिशब्दस्तिथिपर एव । नवरात्रशब्दे च क्वचित्समाख्या क्वचिच्च गुणविधिः, सर्वत्र समाख्या गुणविधिर्वा नास्ति इत्यपि समानं द्वयोः । परं भट्टमते नवम्यामप्युपवासः दशम्यां पारणम् ।

दुर्गोत्सवे व्रतं देव उपवासस्य सप्तकम् ।

 इत्यादिवाक्यानां च व्रतान्तरप्रतिपादकत्वमेव इति । तत्र चेदं वदामः, यद्भट्टैः

दुर्गोत्सवे व्रतं देव उपवासस्य सप्तकम् ।

 इत्यादीनां व्रतान्तरपरत्वेन नेयत्वमुक्तं तद्विनिगमनाविरहादुक्षेपणीयमेव । किं च

पारणान्ते व्रतं ज्ञेयं व्रतान्ते तद्विभोजनम् ।