पृष्ठम्:नवरात्रप्रदीपः.djvu/३६

पुटमेतत् सुपुष्टितम्
३०
नवरात्रप्रदीपभूमिकायाम्-

इति न दशरात्रताऽऽपत्तिरिति चेदसमञ्जसमिदमुच्यते । तथा हि यदुच्यते उपवसविशिष्टायाः पूजायाः प्राधान्यमिति भ्रान्तिरेव सा । यतः

एकभक्तेन नक्तेन स्वशक्त्याऽयाचितेन च ।
अथ वा सर्वनक्तैश्च नवरात्रं समापयेत् ॥

 इत्यत्र एकभक्तादीनां चतुर्णामपि वैकल्पिकतयोक्तत्वात्कोऽप्येकः पक्षोऽङ्गीकरणीयः । परमिदं न वक्तुं शक्यते यदुपवासकरणमेव मुख्यमिति । चतुर्णामपि साम्येन प्राधान्यस्योक्तत्वात् । यद्यप्यत्र परिश्रमन्यूनाऽधिक्यवशेन फलतारतम्यकल्पनेन उपवासानां फलविशेषजनकत्वकल्पनया उपवासपक्षस्यैव मुख्यत्वं सम्भवति, तथाSपि उपवासविशिष्टाया एव पूजायाः प्राधान्यमिति कथनमसमञ्जसमेव । तथा हि येन पुरुषेण प्रथमवर्षे उपवासपक्षोऽङ्गीकृतः, द्वितीयवर्षे च रुग्णतया उपवासाऽसमर्थतया एकभक्तादिपक्षोऽङ्गीकृतस्तत्र न कोऽपि प्रत्यवायः ‘एकभक्तेन’ इतिवचनानुरोधात् । भट्टमते तु उपवासविशिष्टाया एवपूजायाः प्राधान्येन तदानीमुपवासरहितपूजायाः समाचरणात् व्रताऽसम्पन्नत्वापत्तिः । धर्माधिकारिमते तु न तथा । यद्युच्येत ‘उपवासविशिष्टाया एव पूजायाः प्रधान्यमित्यस्य स्वीकृततत्तद्विशिष्टाया एव पूजायाः प्राधान्यं न केवलपूजाया इति तात्पर्यमिति तदपि यद्वातद्वैव । साधारणासाधारणमध्ये असाधारणविशिष्टस्यैव प्रधानत्वाङ्गीकारात् । दर्शपूर्णमासादौ प्रयाजादीनामिव । तस्मादुपवासादिविशिष्टाया एव पूजायाः प्राधान्यमिति