युक्तम् । न च गुणविधित्वम्। उद्भिद्वता यागेनेतिवत् नवरात्रवता व्रतेनेति मत्वर्थलक्षणाप्रसङ्गात् । न चाग्नये होत्रमस्मिन्निति नव रात्रयो यस्मिन्निति व्युत्पत्त्या नवरात्रशब्दो गुणविधिरिति वाच्यम् । तथात्वे नवरात्रीति शब्दस्वरूपापत्तेः । षष्ठ्यर्थलक्षणाऽऽपत्तेश्च । नाऽऽप्यत्यन्तसंयोगे द्वितीयेयम् । ‘नवरात्रीरभिव्याप्य व्रतं कुर्यात् ’'इतिवैय्यधिकरण्येनान्वयाऽऽपत्तेः । सम्भवति सामानाधिकरण्येन कारकविभक्तित्वे उपपदविभक्तित्वकल्प नाऽयोगाच्च । यत्र तु ‘नवरात्रव्रतम्' इति समस्तं पदं, तत्र कर्मधारयेणाभेदाऽवगमादेकार्थत्वेन सुतरां नामधेयत्वसिद्धिः। तस्मान्नायं कालवचनः । किं तु दर्शपूर्णमासद्विरात्रत्रिरात्रद्वादशाहादिशब्दानां यथा तत्कालयोगेन निर्मितेन कर्मनामधेयता तथा नवसङ्ख्यक रात्रिसमुदाययोगमेव निमित्तमादाय नवरात्रशब्दोऽपि कर्मनामधेयम् । तत्प्रख्यन्यायात् । तत्प्रख्यं च शास्त्रं
देवीपुराण एव-
आश्विने प्रतिपन्मुख्याः पुण्यास्तु तिथयो नव । |