पृष्ठम्:नवरात्रप्रदीपः.djvu/५८

पुटमेतत् सुपुष्टितम्
१२
नवरात्रपदीपे-

 आरभ्य नन्दिकां राजन् ! यावद्धि नवमी भवेत् ॥ वाय्वदो वायुभक्षः । नन्दिका प्रतिपदा । प्रथमोपस्थितत्वात् । तथाभविष्योत्तरे--

नवरात्रोपवासेन यथाशक्त्या नृपोत्तम !।
मासे चाश्वयुजे शुक्लपक्षे फलमुदीर्यते ॥
एवं च विन्ध्यवासिन्यां नवरात्रमुपोषितः।

 इत्यादिवाक्यैर्नवरात्रे प्रकारचतुष्टयाऽऽम्नानाच्चतुर्विधत्वमिति । अत्रोच्यते नेदं चतुर्विधं किं तु नक्तव्रतमेव ।

नक्तव्रतमिदं पार्थ ! सर्व्वपापप्रणाशनम् ।
सर्व्वकामप्रदं नृणां सर्वशत्रुनिबर्हणम् ॥
नवरात्राभिधं कर्म नक्तव्रतमिति श्रुतम् ।
धर्माऽर्थकाममोक्षार्थमनुष्ठेयं द्विजातिभिः ।
आश्विने मासि मेघान्ते प्रतिपद्या तिथिर्भवेत् ।
तस्यां नक्तं प्रकुर्वीत रात्रौ देवीं च पूजयेत् ॥
रात्रिरूपा यतो देवी दिवारूपो महेश्वरः।
रात्रिव्रतमिदं देवि ! सर्व्वपापप्रणाशनम् ।
सर्व्वकामप्रदं नृणां सर्वशत्रुनिबर्हणम् ।
रात्रिव्रतमिदं तस्य रात्रौ कर्त्तव्यतेष्यते॥