पृष्ठम्:नवरात्रप्रदीपः.djvu/५९

पुटमेतत् सुपुष्टितम्
१३
नवरत्रस्य नक्तव्रतत्वम् ।

नक्तव्रतमिदं यस्मादन्यथा नरके गतिः ।
मासि चाश्वयुजे शुक्ले नवरात्रे विशेषतः ॥
सम्पूज्य नवदुर्गा च नक्तं कुर्यात्समाहितः ।
आश्वीने मासि मेघान्ते महिषासुरमर्द्दिनीम् ॥
निशासु पूजयेद्भक्त्या सोपवासादिकः क्रमात् ।

इत्यादिनृसिंहप्रसादोदाहृतस्कान्दभविष्योत्तरभविष्यकालिकापुराणदेवीपुराणादि वाक्यैर्नक्तव्रतत्वप्रतिपादनात् । किं च एकभक्तादिषु चतुर्ष्वपि विलक्षणकालव्यापिन्याय एव । तिथेरङ्गत्वात् । चतुर्विधे च तस्मिन्नेकभक्ताद्यन्यतमकालव्यापिन्यास्तिथेरुपादातुमशक्यत्वात् । प्रकारान्तरस्य चाश्रवणादङ्गीभूततिथेरुपादानमशक्यस्यात् । न चैकभक्तादीनां "अयाची त्वथ वैकाशी" इत्यादिना वैकल्पिकानां मध्ये यदा येन नवरात्रं समापनीयम्, तदा तदुक्तकालव्यापिनी तिथिरुपादेयेति वाच्यम् ।

अथ वा नवरात्रं च सप्तपञ्चत्रिकादि वा ।
एकभक्तेन नक्तेनाऽयाचितोपोषितैः क्रमात् ॥