इत्यादिना प्रतिपदादितिथिषु क्रमविहितैश्चतुर्भिरपि मिलितैर्नवरात्रसमापने तिथ्युपादानाऽसम्भवात् । न च प्रतिपदादितथिषु कमेणैकभक्ताद्यनुष्ठाने विहिते एकभक्ताद्युक्तकालव्यापिन्यामेकेनैवैकभक्तदिकमनुष्ठेयमिति वाच्यम् । प्रतिपदादिक्रमेणैकभक्ताद्यनुष्ठाने तिथेर्ह्रासवृद्ध्यादौ तत्तकालव्यापित्वाऽसम्भवेन तदनुष्ठानाऽसम्भवात् । नन्वेतस्य नक्तव्रतत्वमनुपपन्नम् । तद्धि नक्तवतमित्युच्यते यत्र दिवाभोजनपरित्यागेन रात्रिभोजनं फलार्थं विधीयते । यथा हि वाराहपुराणे--
मार्गशीर्षे सिते पक्षे प्रतिपद्या तिथिर्भवेत् । |
इत्यत्र व्याख्यातं माधवाचार्यैः। न च प्रकृते तथा । एकभक्तनक्ताऽयाचितोपवासानां चतुर्णां श्रूयमाणत्त्वात्। न च चतुष्टयमेककाले विधातुं शक्यते । तस्य विलक्षणस्यैव तत्तदङ्गत्वात् । न चैषां प्राधान्यम् । फलसम्बन्धाऽश्रवणात् । तस्मात्कथमस्य नक्तव्रतत्वमिति चेत् उच्यते --
प्रारभ्य नवरात्रं स्याद् दुर्गा पूज्या तत्र वै । |