पृष्ठम्:नवरात्रप्रदीपः.djvu/७०

पुटमेतत् सुपुष्टितम्
२४
नवरात्रपदीपे-

तथाऽपि नास्मत्सिद्धान्तविरोधिता । तथा हि न तावत्सौरभविष्यपुराणीयवाक्यैरभीष्टसिद्धिरायुष्मताम्। तेषां तिथिमात्रद्वैधे उत्तरतिथिग्राह्यत्वप्रतिपादकानां सामान्यरूपत्वात् । निगमपैठीनसिस्कन्दव्यासादिवाक्यैः शुक्लप्रतिपन्मात्रस्यामायुक्तस्य ग्राह्यत्वप्रतिपादकैर्विशेषेभूतैर्बाधितत्वेन शुक्लप्रतिपद्भिन्नतिथिपरत्वं तेषां वाच्यम्, सामान्यविशेषन्यायात्, तेन न विरोधः । आवश्यकश्चायमेतद्वाक्यसङ्कोच: श्रीमताम् । अन्यथा सर्व्वतिथीनामुत्तरविद्धानामेव ग्राह्यत्वप्रतिपादने तिथिविशेषे पूर्वविद्धाप्रतिपादकवाक्यानामानर्थक्ये कालनिर्णयमात्रोच्छेदप्रसङ्गात् । सम्भवति व्यवस्थापक्षे विकल्पानाश्रयाच्च । तेन न सामान्यवाक्यैर्द्वितीयायुक्तप्रतिपदो ग्राह्यत्वं सिध्द्यति । अथ "तिथीनां प्रवरा यस्मात्" इत्यादि विशेषवाक्यैरेव तत्सिद्धिरिति, तत्रोच्यते-तदपि प्रतिपन्मात्रस्य परत्वप्रतिपादकम् । अमाविद्धप्रतिपद्ग्राह्यताप्रतिपादकवाक्यविरोधात् । आपस्तम्बीयवाक्यवदेव कृष्णप्रतिपद्विषयं वक्तुमुचितम् । न्यायसामान्यात् । अथ “आश्विनस्य सिते पक्षे" इत्यादिदेवीपुराणवाक्ये