पृष्ठम्:नवरात्रप्रदीपः.djvu/७८

पुटमेतत् सुपुष्टितम्
३२
नवरात्रपदीपे-

आद्यास्तु नाडिकास्त्याज्याः षोडश द्वादशाऽपि वा ॥ अपराह्णे च कर्तव्यं शुद्धसन्तानकाङ्क्षिभिः॥ इति । तथा (चित्रावैधृत्यादेरप्यहोरात्रव्यापित्वे षोडशैव नाडिकास्त्याज्या इत्याह मनुः-

  चित्रावैधृतिसङ्क्रान्तौ प्रतिपच्च क्षयं गता ।
  तदा । पूर्व्वयुता। कार्या त्यक्त्वा षोडश नाडिकाः ॥इति।

 पूर्व्वयुता अमायुक्ता प्रतिपचित्रावैधृतिसङ्क्रान्तिभिः क्षयं योगं गता चेत् क्षयगामिनी वा तदा चित्रवैधृत्यादेः षोडश नाडिकास्त्यक्त्वा कार्यैत्यर्थः । स एष चित्रावैधृतिपरिहारोऽश्वनीराजनाङ्गकलशस्थापनविषय इत्युक्तं प्राक् । यत्त्वेवममायुक्तप्रतिपदि योऽयं नवरात्रोपक्रमो विहितस्तस्य सङ्कल्पः किं प्रातःकाले कार्य उत प्रतिपत्काले ? नाद्यः । अमायां प्रतिपदुपक्रमस्य नवरात्रस्य सङ्कल्पाऽयोगात् । अत एव बौधयनः-

  यो यस्य विहितः कालः कर्मणस्तदुपक्रमे ।
  तिथिर्याऽभिमता सा तु कार्या नोपक्रमोज्झिता॥ । इति।

   उपक्रमातिथिश्च प्रतिपदेवेत्युक्तं प्राक् । नापरः ।