पृष्ठम्:नवरात्रप्रदीपः.djvu/७९

पुटमेतत् सुपुष्टितम्
३३
प्रतिपाद्दिनकृत्यनिर्वचनम् ।

प्रातःकालस्यैव सङ्कल्पाऽङ्गत्वात् । उक्तं च--
  प्रातः सङ्कल्पयेद्विद्वानुपवासव्रतादिकम् । इति ।
 यथा -

 प्रातरारम्य मतिमान् कुर्यान्नक्तव्रतादिकम् ।
 नापराह्ने न मध्याह्ने पित्र्यकालौ हि तौ स्मृतौ॥ इति ।

उच्यते-प्रातरेव सङ्कल्पः कार्यः त्वदुक्तवचनात् । तदानीं ज्योतिःशास्रसिद्धप्रतिपदभावेऽपि स्मृत्युक्तप्रतिपदः सत्वात् । उक्तं च देवलेन -

 यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः ।
 सा तिथिः सकला ज्ञेया दानाऽध्ययनकर्म्मसु॥ । इति ।

एतदेवाऽभिप्रेत्योक्तं माधवाचार्येः--

अभावेऽपि प्रतिपदः सङ्कल्पः प्रातरिष्यते । इति । तस्मात्प्रातरेव व्रतसङ्कल्पं विधायाऽपराह्ने कलशं संस्थाप्य नक्तकालं पूजेति युक्तमेव सिद्धम् । तदेवं प्रतिपदि प्रारभ्य नवमीपर्यन्तं नवरात्रव्रत कुर्यात्। तदुक्तं धौम्येन--

 आश्विने शुक्लपक्षे तु कर्तव्यं नरात्रकम् ।
 प्रतिपदादिक्रमेणैव यावञ्च नवमी भवेत् ॥