पृष्ठम्:नवरात्रप्रदीपः.djvu/९८

पुटमेतत् सुपुष्टितम्
५२
नवरात्रपदीपे-

ततोऽनुज्ञामनुप्राप्य वेद्यामाचार्यसन्निधौ ।
मृद्दासनेषु सन्तुष्टा उपविष्टाः सुनिश्चिताः ॥

नासाध्यानसमायुक्ता नासाग्रस्याऽवलोकिनः ।
सुगन्धपुष्पमालाढ्याश्चण्डिकाचरितत्रयम् ॥

सरहस्यमृषिच्छंदोदेवताशक्तिसंयुतम् ।
बीजतत्त्वसमोपेतमुपांशुगणसंयुतम् ॥

जपेयू रूपमेकैकं मौनिनस्त्यक्तमत्सराः ।
समुत्थाय ततः कुर्युरेकैकं ते प्रदक्षिणम् ॥

चण्डिकां तु नमस्कारैः परितोष्य पुनः पुनः।
उपविश्यासने सूक्तैः श्लोकैः सर्वार्थसाधनैः ॥

प्रार्थयेयुः प्रार्थ्यफलं महालक्ष्मीं दृढव्रताः।
कुमार्यो दशसङ्ख्याका भोज्या विप्रा दशोत्तमाः ॥

महाकालीमहालक्ष्मीसरस्वत्या जपं जपन् ।
भोजयेत्परया भक्त्या देशिकादिदशद्विजान् ॥

ततो बन्धुसमायुक्तो भुञ्जीयाद्यज्ञकृत्पुमान् ।
सत्कथाभिः सुगीतैश्च सर्ववादित्रनिःस्वनैः ॥

पूजनैः प्रेक्षणैश्चैव वेदपाठैर्निशां नयेत् ।
द्वितीये दिवसे स्नात्वा विधिवत्ते द्विजा दश ॥