प्रयोक्ष्यन्ते त्रिलिङ्गस्य त्रयशब्दः प्रयोक्ष्यते ।
क्लीबे क्ली नबिति त्वन्तं पुनरन्तमथादि च ॥ ३१ ॥
अथोआदि च नेष्यन्ते पूर्वसम्बन्धभाक्तया ।
अस्त्रीत्यादिनिषेधेषु नृषण्डादीतरद्वयम् ॥ ३२ ॥
एवं समीक्ष्य मेधावी लिङ्गं विद्यात् प्रयत्नतः ।
नामज्ञानेऽप्यलिङ्गज्ञा नाद्रियन्ते हि वाग्मिभिः ॥ ३३ ॥
अन्त्याध्यायद्वये यत्रक्वचित् स्त्रीप्रत्ययोद्भवात् ।
शब्देषु वर्णवृद्धिः स्यात् सन्महद्बृहदादिषु ॥ ३४ ॥
तान् पश्येत् प्रकृतेर्योग्ये स्थाने वृद्धाक्षरानपि ।
सतीमहत्यंशुमतीश्रेयसीबृहतीमुखान् ॥ ३५ ॥
ग्रन्थप्रणयमिच्छूनां विशेषात् काव्यकारिणाम्
उपन्यसितुमिच्छूनां विदुषां परिषत्स्वपि ॥ ३६ ॥
राजगोष्ठीषु शब्दार्थलिङ्गयोर्मोहसंशयात् ।
विदुषां कलहे प्राप्ते जिगीषूणां मनीषिणाम् ॥ ३७ ॥
आदरणीयमवश्यं शास्त्रमिदं सत्पथे विवि[१]त्सूनाम् ।
डिडयिषमाणानामिव पतत्त्रयुगलं पतत्त्रीणाम् ॥ ३८ ॥
गरुडेनेव भोगीन्द्रः स्पर्धमानः पराभवेत् ।
अवश्यमेत [२]द्विदुषा बहुज्ञोऽपि वदावदः ॥ ३९ ॥
विद्वद्भूयिष्ठदेशेषु क[३]श्मीरादिषु तद्विदाम् ।
कृतीरदृष्ट्वा सकलाः स्वल्पकं क्रियते मया ॥ ४० ॥
नामाम्बुधेरपर्यन्तात् स्वशक्त्या किञ्चिदाददे ।
प्रलयक्षुभिताम्भोधेरालीढे मशकः कियत् ॥ ४१ ॥
यदत्र मतिमान्द्येन स्खलितं संभविष्यति ।
मनीषिणः क्षमन्तां तदेक एव हि सर्ववित् ॥ ४२ ॥