पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

अक्षरकाण्डे नानालिङ्गाध्यायः । अन्यस्तु राजाने पुमानित्याह क्ली तु भूतवाक् । महाभूतेषु भवनक्रियायां प्राप्तिसत्ययोः ॥ ९१३ ॥ न्याय्ये प्राणिनि चान्यस्तु वाच्ययोरेतयोस्त्रिषु । अतीततुल्यलब्धेषु देवयोन्यन्तरे पुनः ॥ ९१४ ॥ नृशण्डो मातरि त्वस्य भूता स्त्री भूरिवाक् पुनः । प्रचुरे त्रिषु हेम्न्यस्त्री भूर्णिस्तु स्त्री भृतौ तथा ॥ ९१५ ।। कश्चित् तु धरणौ ब्रूते त्रि तु भ्रमणशीलके । द्वयोस्तु भृङ्गो धूम्याटे भ्रमरे च पुमान् पुनः ॥ ९१६ ॥ भृङ्गराजे परस्त्वाह भृङ्गारेऽन्यो लवङ्गके । अन्ये तु वर्णभेदे त्रिः पुनस्तद्वति नप् पुनः ॥ ९१७ ॥ त्वक्पत्रसंज्ञभैषज्ये भृत्यो दासे द्वयोः स्त्रियाम् । भृत्या स्याद् वेतनेऽथो ना (भूं?भृ) मिर्वायौ जलेऽपि च ॥ ९१८ ॥ द्वयोस्तु हस्तिनि त्रिस्तु भेरवाक् कातरेऽथ सः । स्त्रियां स्याद् दुन्दुभौ भेरी भे (लु ल) + स्तु त्रिषु कातरे ॥ ९१९ ॥ पूज्याप्राज्य प्रहीणेषु पुमांस्त्वृष्यन्तरे क्वचित् ।

  • चिकित्साग्रन्थकारे स्यादुडुपेऽप्यथ भेकवाक् ॥ ९२० ॥

मेघे ना द्वे तु मण्डूके मर्त्यजात्यन्तरेऽपि च । निषादब्राह्मणीजाते कातरे तु त्रिषु स्मृतः ॥ ९२१ ॥ उदीच्यनीवृद्भेदे तु भोलाः पुंभूम्न्यथ द्वयोः । द्वीपिसंज्ञकशार्दूलभेदे भोजः पुनर्द्वयोः ॥ ९२२ ॥ राजन्यमात्रे भोजाख्यनीवृद्भेदेऽस्य राजनि । मर्त्यजात्यन्तरे चापि ज्ञेयः क्षत्रियगोलके || ९२३ ॥ १. 'अन्मि' ग. पाठः. २. 'ष' क. ख. ग. घ. पाठ:. ३. 'पूजप्र' ग. पाठः,

+ ‘भेलौ तूडुफ्भीरुकौ' (पु. २३४. वो. ५२ ) इति वैजयन्ती । चिकित्साप्रन्थश्च इलयोरभेदाद् भेडसंहितेत्युच्यते ।