पुटमेतत् सुपुष्टितम्
left
७
एकाक्षरकाण्डे नानालिङ्गाध्यायः ।
मास्तु मासे निशानाथे पुमध्यायः समाप्तवान् ॥ २१/२ ॥
- इत्येकाक्षरकाण्डे पुल्लिङ्गाध्यायः ।
- अथैकाक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।
अथ क्लीबे खमाकाशे स्वर्गे छिद्रे गृहेऽभ्रके ।
नक्षत्रेन्द्रिययोर्ब्रह्मण्यथ हृच्चित्तवक्षसोः ॥ १ ॥
- इत्येकाक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।
- अथैकाक्षरकाण्डे वाच्यलिङ्गाध्यायः ।
अथाभिधेयलिङ्गे स्तो द्वे एवैकाक्षरे[१] मते ।
किं प्रश्नाक्षेपकुत्सानां [२] वितर्कस्य च गोचरे ॥ १ ॥
युङ् सहाये द्वितीयादिसमसङ्ख्ये[३] च वस्तुनि ॥ ११/२ ॥
- इत्येकाक्षरकाण्डे वाच्यलिङ्गाध्यायः ।
- अथैकाक्षरकाण्डे नानालिङ्गाध्यायः ।
इडीट् च त्रिषु नाथे स्त्री मेदिन्यां कस्तु ना नगे ।
अर्कानिलविरिञ्चात्मशब्दबुद्धिमनस्स्वपि ॥ १ ॥
अजयस्तु शरीरेऽपि पुंस्येवैनमभाषत ।
कं[४] नाम्न्यप्सु सुखे मूर्ध्नि गूर्ना यत्ने गुदे स्त्रियाम् ॥ २ ॥
गौर्नादित्ये बलीवर्दे ऋतुभेदर्षिभेदयोः ।
स्त्री तु स्याद् दिशि भारत्यां भूमौ च सुरभावपि ॥ ३॥