पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे दृश्यते वेदसूत्रेषु रात्रेरवयवान्तरे । महच्छब्दस्तस्य लिङ्गं विविञ्चन्तु विचक्षणः ॥ ९७० ॥ रात्रेरवयवः सोऽपि पश्चिमो याम ईरितः । कैश्चिदन्यै स्त्रिभागावशेषा रात्रिरितीरितः ॥ ९७१ ॥ मरुत् तु ना देवभेदे पवने शिखरे गिरेः । केचित् तु मरुदेशेऽपि रूपे चर्विजे नप् पुनः ॥ ९७२ ॥ हेम्नि स्याद् देवमात्रे तु द्वे स्पृक्कायां तु सा स्त्रियाम् | मद्वा पुंस्यृषिभेदे स्यात् क्रीडाकान्तिशिरस्सु च ॥ ९७३ ॥ तृप्तौ तु कश्चित् त्रिषु तु मदितर्यथ मत्रिवाक् । राज्ञो धीसचिवे पुंसि स्यात् तु मन्त्रवति त्रिषु ॥ ९७४ ॥ माला स्त्री स्रजि मालस्तु मर्त्यजात्यन्तरे द्वयोः । सूतीशूद्रोद्भवेऽत्रार्थे स्त्र्यर्थे मालीति जातिङीप् ॥ ९७५ ॥ पुमांस्तु कालपर्ण्याख्यतुलस्यां च कठिञ्जरे । धारणे चान्तरद्वीपे पुनः क्ली दक्षिणामुतः ॥ ९७६ ॥ वर्षा(त्) स्याद् भारतात् त्रिस्तु प्रह्रतक्षेत्रभूतले । माया स्त्री शाम्बरीबुद्ध्योर्विष्णोर्नवसु शक्तिषु ॥ ९७७ ॥ एकस्यां साङ्ख्यतत्त्वे च प्रधानाख्येऽथ सा त्रिषु | मायते यश्च मां याति तत्रापि स्यादथ स्त्रियाम् || ९७८ ॥ मात्रा प्रवृत्तौ कर्णस्य परिष्कारान्तरे* धने । परिच्छदे परिच्छेदे शैलेऽन्ये त्वेकदेशके || ९७९ ॥ ह्रस्ववर्णप्रयोगस्य काले पारे तु कश्चन । स्यात् तूत्तरपदे क्लीबं मात्रं कार्येऽवधारणे ॥ ९८० ॥ १. 'के' क. ख. ङ. पाठः २. 'व' ख. पाठ:. ३. 'वारेस्तु' क. ख. घ, ङ, पाठ:

  • 'मात्रा परिच्छदेऽथेँऽशे प्रवृत्ती कर्णभूषणे' (पु. २३५. श्लो. ६२) इति वैजयन्ती ।