पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । १००५ ॥ त्रिषु तु स्यान्मुखभवे प्रधाने प्रथमेऽपि च । मुष्कस्तु वृषणे न स्त्री स्त्रीभगावयवे तु ना || मुक्ता स्त्री मौक्तिके त्रिस्तु विसृष्टेऽतीतसंसृतौ । मुस्ता तु मुस्तके लिङ्गत्रये पुंशण्डयोः पुनः ॥ १००६ ॥ विषभेदे मुरा तु स्त्री गन्धकुट्याख्यभेषजे । दैत्यभेदे तु ना मुद्रा पुनः स्यादप्सरोन्तरे || १००७ ।। लाञ्छने चाङ्गुलीये च यत्तु स्याल्लिखिताक्षरम् । हस्तविन्यासभेदेषु स्थापनीनिष्ठुरादिषु ॥ १००८ ॥ मुद्रस्तु दातरि त्रि स्यान्मुनिस्तु स्यादृषौ पुमान् । अगस्त्य च सुगते कुशे दमनके तथा ॥ १००९ ॥ अगस्त्यसंज्ञवृक्षे च मण्डूके तु द्वयोस्त्रि तु । वाचंयमेऽथ मुष्टिः स्त्रीपुंसयोः फलकादिनः ॥ १०१० ॥ खङ्गा दिनश्च ग्रहणप्रदेशे पलसंज्ञके । उन्मानभेदे सुदृढपिण्डिताङ्गुलिसंहतौ ॥ १०११॥ धानुष्कहस्तविन्यासभेदे ग्राह्ये च मुष्टिना । द्रव्ये मूलं तु नप्यन्ये पुंस्यप्यादिसमीपयोः ।। १०१२ ॥ नक्षत्रभेदे पादे च भूरुहाणां वशीकृतौ । स्वीये च कारणे चाथ मूल्यं वेतनवस्त्रयोः ॥ १०१३ ॥ क्लीबं त्रिषु तु यस्य स्यान्माषमुगादिवस्तुनः । ग्रहणे मूलमुत्पाट्यं तेषु माषादिवस्तुषु ॥ १०१४ ॥ यः पटादिरुपादानद्रव्यतुल्यप्रयोजनः । तत्रापि मूतशब्दस्तु ब्रीहावातञ्चने च ना ॥ १०१५ ॥ आचमन्यां तृणैर्बद्धभारे त्रीह्यादिवस्तुनः । वस्त्रवेष्टनबन्धेऽथ बद्धे त्रिः क्ली तु बन्धने ॥ १०१६ ॥

  • मूलमस्यावर्हि' (४. ४. ८८) S 'नौवयोधर्मविषमूलमूल... सम्मितेषु' (४.४

९१ ) इति सूत्राभ्यामुभयत्र यत्प्रत्ययः ।