पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३२ नानार्थार्णवसंक्षेपे देवजात्यन्तरे तु द्वे स्वाषेयाख्ये तथा शुनि । यमो वैवस्वते पुंसि यमने च शनैश्चरे || १०४० ॥ शब्दवर्णविशेषेषु शिक्षाकाराश्चतुर्ष्वपि । शरीरसाधनापेक्षे सत्यादौ नित्यकर्मणि ॥ १०४१ ॥ वल्गिताख्यस्य घोटानां गतिमेदस्य चाष्टसु । भेदेप्वेकत्र भेदे स्यात् क्ली तु युग्मे त्रिषु त्वदः ॥ १०४२ ॥ यमजे युग्मवति च यमी तु यमुनाधुनौ । स्त्री यम्याविति तु द्यावापृथिव्योर्द्वे तु वायसे ।। १०४३ ॥ हीनाधिकाङ्गतुरगेऽप्यथ क्लीवं यतं स्मृतम् । यमने हस्तिपानां च पादकर्मणि तत् स्मरेत् ॥ १०४४ ॥ भेद्यलिङ्गं तु बद्धे स्यात् तथैवोपरतेऽपि च । यन्त्रं तु क्ली लघूपायकर्मनिर्माणसाने ॥ १०४५ ॥ यन्त्रणायां तु नाथ स्त्री यवा रश्मिमनीपयोः । भेद्यलिङ्गं तु महति यवोत्पत्त्युचिते पुनः ॥ १०४६ ।। क्षेत्रे यव्यं त्रिपु यवसाधौ यवहिते तथा । यव्या तु नद्या स्त्री यम्या पुना रात्रौ स्त्रियां त्रि तु ॥ १०४७ ॥ विद्याद् यमयितव्ये च यन्तव्ये यमसाधुनि । यजिस्तु यजमाने द्वे इति कश्चिद्रवोचत ॥ १०४८ ॥ धातौ तु यजतौ पुंस्त्वे यतिस्तु त्रिजितेन्द्रिये । परित्राज्यपरे स्त्री तु यमने पद्यकारिजाम् ॥ १०४९ ॥ पदच्छेदान्तरे कारागृहे धातौ तु पुंस्ययम् । यततौ यष्टिशब्दस्तु नृस्त्रियोर्दण्डमात्रके || १०५० ॥ गृहस्थदण्डे त्वाहान्यस्तोमराख्यायुधान्तरे । तरवारिसमाख्येऽन्ये खड्गादन्यत्र चायुधे ॥ १०५९ ॥ १. 'स्त्रियां य' ग. पाठ:. २. 'ति द्या' ग. पाठ:. 'री' क. स. पाठ:. ५. 'त्यां' इ. पाठ:. ३. 'धुनि ।' ग. पाठः.