यक्षरकाण्डे नानालिङ्गाध्यायः । चारुप्रधानयोश्चापि रामा तु स्त्र्यन्तरे स्त्रियाम् । राकशब्दस्तु पुल्लिङ्गो ज्ञेय आतपसूर्ययोः ॥ १०९९ ॥ राका पुनः स्त्रियां पूर्णचन्द्रे स्यात् पूर्णिमान्तरे | जातार्तवायां कन्यायां रातं तु त्रिषु दाशिते ११०० ॥ रतसम्बन्धिनि स्त्र्यर्थे राता राती यथाक्रमम् | उक्तयोरर्थयोः क्ली तु दाने कन्यान्तरे पुनः ॥ ११०१ ॥ राता विहारशीले स्त्री राधा स्त्री कर्णमातरि । विशाखाख्ये च नक्षत्रे तद्युक्ते कालमात्रके ॥ १९०२ ॥ जाते तु तत्र त्रिर्ना तु राधो वैशाखमासि च । पौर्णमास्यां तु वैशाख्यां राधी स्त्री राष्ट्रवाक् पुनः ॥ ११०३ ॥ नृशण्डयोरजन्ये च विषयेऽप्यथ राम्भवाक् । ना दण्डे वैणवे रम्भासम्बन्धिनि तु स त्रिषु ॥ ११०४ ॥ राशिः क्रत्वन्तरे पुञ्जे मेषादावाढके च ना । साम्नोस्त्वभिन्नरोवर्गगीतयोः स्यान्नपुंसकम् ॥ ११०५॥ राजा ना सोमवल्ल्यां च चन्द्रे च द्वे तु पार्थिवे । क्षत्रिये च प्रभौ तु त्रिरस्मिन्नर्थत्रये यदा || ११०६ ॥ स्त्रयर्थे वृत्तिस्तदा राज्ञी ब्रह्मरीत्याह्वये पुनः । लोहे राज्ञी स्त्रियामेव रितं तु क्ली गतौ त्रि तु ॥ ११०७ ॥ गतेऽथ वेद एवेदं हिंसने क्ली त्रि हिंसिते । रिष्ठं त्वभावे क्ली पापेऽप्यथ त्रिरशुभे शुभे ॥ ११०८ ॥ याप्ये च रिक्तशब्दस्तु शून्ये त्रि क्ली तु रेचने । क्षीयमाणतिथिप्रायपक्षे तु नरि स त्वयम् ॥ ११०९ ॥ चतुर्थ्यां च नवम्यां च चतुर्दश्यां तिथौ पृथक् । रिक्ता स्त्री रिपुशब्दस्तु शत्रौ ना त्रि तु चोरके ॥ १११० ॥ १. 'दे' ख. ग. ङ. पाठः, १३७
पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१४३
एतत् पृष्ठम् परिष्कृतम् अस्ति