पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे ब्रह्मचर्ये च वर्णा तु तुवरीसंज्ञधान्यके । पृथुबीजे स्त्रियां वज्रं त्वस्त्री कुलिशशस्त्रयोः ॥ ११५८ ॥ मणिवेधे रत्नभेदेऽप्यशनौ चासनान्तरे । जङ्गे पद्मासनावस्थे तत्सन्धिनिहितौ करौ ॥ ११५९ ॥ ताभ्यामेव स्थितौ भूमावन्तरिक्षासनं च तत् । इति लक्षणमप्युक्तं यस्य नामान्तरं तथा ॥ ११६० ॥ व्रतभेदे च गोमूत्रयावकाहारजीवने । मासमेकं पुमांस्त्वष यज्ञभेदे जिघांसतः ॥ ११६१ ॥ द्विषज्जनपदं स्त्री तु वज्रा स्नुह्याख्यभूरुहे । तत्रैव पत्ररहितस्नुह्यां वज्री भवेत् पुनः ॥ ११६२ ॥ ह्रिबेरे क्ली वशा तु स्त्री चन्ध्यायां दुहितर्यपि । स्त्रीमात्रे चेति केषाञ्चिन्मतमन्ये तु मन्वते ॥ ११६३ ॥ वन्ध्यस्त्रियां वन्ध्यगव्यामित्यथो गजयोषिति । अग्निमन्थाख्यवृक्षे ना त्वायत्तत्वप्रभुत्वयोः ॥ ११६४ ॥ जने स्पृहायां त्रिस्त्वेष आयत्ते द्वे तु मानुषे । करणीवैश्यसम्भूते स्यादथो वर्षमस्त्रियाम् ॥ ११३५ ॥ वृष्टौ संवत्सरे जम्बूद्वीपांशे भारतादिके । प्रावृट्संज्ञर्तुभेदे तु वर्षाः स्त्रीभूम्नि ना पुनः ॥ ११६६ ॥ वत्सः संवत्सरे वृक्षभेदे कुटजसंज्ञके । ऋषिभेदे च तद्वंश्यपुरुषेषु तु भूमनि ॥ ११६७ ॥ फले तु कुटजस्य क्ली द्वे तु तर्णकसंज्ञके । गोपोते बालमात्रेऽन्ये तनयादौ त्रिषु त्वयम् ॥ ११६८ ॥ वर्ये स्याद् वक्षास त्वस्त्री ना वस्त्रो मूल्यमेढ्योः | आगमे क्ली तु लवणे रुमाजे वप्रवाक् पुनः ।। ११६९ ॥