द्वयक्षरकाण्डे नानालिङ्गाध्यायः । रूपे च कश्चित् क्लीबं तु व्यानि कश्चित्तु वारिणि । वेणस्तु द्वे मनुष्याणां जातिभेदे प्रकीर्तितः ॥ १२८९ ॥ पुत्रे वैदेहकाम्बष्ठयोर्वेननाम्न्येव जीवति । लङ्घनष्ठवनाद्यैः स्यात् तूग्रराज्ञीसुतेऽपि च ॥ १२९० ॥ मायासम्मोहनादीनि वृत्तिश्चेत् तस्य स त्वयम् । वेणा स्यान्नृस्त्रियोर्ज्ञाननिशामनगतिष्वपि ॥ १२९१ ॥ चिन्तायामपि वादित्रग्रहणेऽप्यथ वेनवाक् । द्वे नृजात्यन्तरेऽम्बष्ठीवैदेहकसमुद्भवे ॥ १२९२ ॥ स्यात् पारघैनुके चाथ वैदेह्यम्बष्ठजेऽपि च । ना तु प्रजापतौ यज्ञे मेधाविनि तु स त्रिषु ॥ १२९३ ॥ ध्यानिन्यप्यथ वेलो ना चूते क्की तत्फलेऽथ सा । वेला कूले समुद्रस्य तदम्बुवकृतावपि ॥ १२९४ ॥ तरङ्गे वत्सरे काले व्यवस्थायामपि स्त्रियाम् । वेल्ला तु वेल्लने नृस्त्री विडङ्गे तुं नपुंसकम् ॥ १२९५ ।। वेटी स्त्री नावि वेटस्तु ना शब्दे वेष्टवाक् तु ना | श्रीबेष्टसंज्ञे निर्यासे वेष्टने तु नरस्त्रेयोः || १२९६ ॥ वेष्टा वेध्यं शरव्ये क्ली वाद्यभेदे तु सा स्त्रियाम् । वेध्या वेणिस्तु केशानां बन्धभेदे जलस्रुतौ ॥ १२९७ ॥ कश्चित्तु मध्ये नद्यादेर्मेष्यां स्याच्च लतान्तरे । देवताडाह्वये ना तु धातौ स्याद् वेणतावथ || १२९८ ॥ वेदिर्वितर्दो यागाय परिष्कृतमहीतले । अग्निकुण्डे चतुष्कोणे त्वभि (द? कु) *ण्डे परे विदुः ॥ १२९९ ॥ ना तु वेदयतौ ज्ञेयो वेगी तु नरि मारुते । त्रि तु वेगवति त्रिस्तु वेधा विदुषि तं पुनः ॥ १३०० ।। १. 'पुन्न' ग. पाठः. २. 'ज्ञनि' ग. पाठः.
- ‘कुण्डं हवित्री इवनी कुण्डे स्याद् वर्तुले परम् । वेदिः स्त्रियां चतुष्कोणे' (पु. ९२.
लो. १०९ ११०) इति वैजयन्ती ।