पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे कश्चित् सर्वविदि स्माह ना तु विष्णुविरिञ्चयोः । देशेऽप्यन्येऽथ शङ्खोऽजी ललाटास्थिगमर्मणोः ॥ १३०१ ॥ सङ्ख्याभेदे निखर्चाख्यसङ्ख्याया दशकात्मके । कम्भौ च वलये चाथ निधिमंदे पुमानयम् ॥ १३०२ ॥ अमावास्यतिथौ सर्पराजभेदर्पिभेदयोः । मणिभेदे शुक्तिसंज्ञभेषजेऽपि प्रयुज्यते ॥ १३०३ || शठो ना मातुलुङ्गे च भव्यधुर्धूरयोरपि । सिते च सर्पषे तस्य फले चाथ नपुंसकम् ॥ १३०४ !! पापे बङ्गाख्यलोहे च प्रतूनेऽत्रोक्तशाखिनाम् । त्रिस्तु धूर्त च शत्रौ च माजीरे तु द्वयोरयम् ॥ १३०५ ।। शल्यमन्त्री शलाकायां शङ्कुसंज्ञाधान्तरे । अजयस्तु वदत्येनं काण्डेऽर्थस्य चिन्त्यताम् ॥ १३०६ ॥ विद्वा शरीरं लग्नेऽन्तः पुस्तु मदनकुमे । मद्रराजानतरे चाथ श्वाविः संज्ञमृगे द्वयोः ॥ १३०७ ॥ शय्या स्त्री शयनीये च ग्रन्थगुम्फे च सा त्रि तु | इयसाधौ पाणिभवे मन्दिरे तु नपुंसकम् || १३०८ ॥ शम्या तु युगकीले स्त्री माने पट्त्रिंशदगुले । अथो शमयितव्ये त्रिः शमितव्ये तु तन्नपि ॥ १३०९ ॥ शमन्तु शान्तौ पुलिङ्गो माने च चतुरङ्गुले । शमी तु स्यात् सक्तुफलीसंज्ञवृक्षान्तरे स्त्रियाम् ॥ १३१० ॥ मुद्गमाषादिसरयानां बीजकोश्यां च कर्मणि (?) | शशस्तु रोमकर्णाख्यमृगे द्वे ना तु भेषजे ।। १३११ ।। बोलसंजे शलं तु कली श्राविडः शलले त्रि तु । गन्तयेथ द्वयोः स स्याद् गदर्भाख्यचतु पदि ॥ १३१२ ॥ १. पि' ग. पाट:.