पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे शद्रिस्तु पर्वते पुंसि द्वयोस्तु गजमेषयोः । शङ्कुः शम्भौ चतुर्वक्रे पुमान् सङ्ख्यान्तरेऽपि च ॥ १३२५ ॥ शतादिसङ्ख्यानप्त्वस्य बाधार्थं लिङ्गमन्वशात् । शङ्कुः पुंसीति भगवांस्तच्च सङ्ख्यान्तरं विदुः || १३२६ ॥ कोटीनां लक्षमाचार्याः केचित् पुंशण्डयोः पुनः । कीले मेढ्रेऽस्त्रभेदे च गोत्रे चान्ये तु मन्वते ॥ १३२७ ॥ वृक्षपत्रसिराजाले द्वे तु मार्जारहंसयोः । जलजन्तुप्रभेदे च राक्षसेऽथ नपुंसकम् ॥ १३२८ ॥ एतमुत्यादिवर्गस्य तृतीये साम्न्यथापरे । पुन्नपुंसकयोरेनमविशेषेण मन्वते ॥ १३२९ ॥ अप्राण्यर्थं तथा प्राह शङ्कुरप्राणिगोचरः । इत्यर्धर्चादिवर्गस्य वैजयन्त्यां प्रपञ्चने ॥ १३३० ॥ शयुस्तु नार्के स्वप्ने च द्वयोस्त्वजगरेऽथ ना । शरुः स्यादायुधे क्रोधे द्वयोस्तु स्यात् कपिञ्जले ॥ १३३१ ॥ शत्रुस्तु पुंस्यमित्रे स्याल्लग्नात् षष्ठे च राशिके | त्रि तु शातयितर्युक्तमिन्द्रशत्रुपदे यथा ॥ १३३२ ॥ शस्ता प्रजापतौ पुंसि चण्डाले तु द्वयोरिति । कश्चित् कश्चित्तु शस्ता स्यात् स्तोतरि त्रिषु ना पुनः ॥ १३३३ ॥ मित्रावरुणयोश्चेति पितरीति च मन्यते । शक्का तु हस्ते ग्रन्थादौ पुंस्यथो शक्करी स्त्रियाम् ॥ १३३४ ॥ नद्यां विद्युति काञ्च्यां च बाहौ छन्दोन्तरे तथा । षट्पञ्चाशत्स्वरे स्त्री तु शङ्खिनी स्थावरान्तरे ॥ १३३५ ॥ चौर पुष्पसमाख्येऽथ शङ्खी शङ्खवति त्रिषु । श्यामो ना हरिते वर्णे वर्णे कृष्णे तथा (र्बुम्बु)दे ॥ १३३६ ॥ १. 'त्रि' ख. ङ. पाठः. २. 'लय' ग. पाठः, ५. 'म्बरे ख. ड., 'म्बरौ' क. घ. पाठः, ३. 'थीं' क. ४. 'प्या' छ. पाठः,