पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे बलासंज्ञे च भैषज्यस्तम्बयोरोषधावपि । मुद्गपर्ण्यभिधानायां भेद्यलिङ्गं तु सोढरि ॥ १४४५ ॥ सङ्ख्यमस्त्री रणे स्त्री तु सङ्ख्या स्याद् गणने तथा । एकत्वादौ विचारे च सव्यं तु त्रिषु दक्षिणे ॥ १४४६ ॥ शरीरभागे वामे च सोतव्यसवितव्ययोः । तथा प्रेरयितव्ये च मृतके त्वनले पुमान् ॥ १४४७ ॥ सभ्यस्तु त्रिः सभासाधौ तथा सामाजिकेऽपि च । सज्जनेऽप्यथ यागस्थे पूर्वेऽप्याहवनीयतः ॥ १४४८ ॥ अभिभेदे पुमान् सह्यः पुनर्ना पर्वतान्तरे । पश्चिमार्णवपार्श्वस्थे सोढव्ये तु त्रि नप् पुनः ॥ १४४९ ॥ आरोग्ये क्ली तु सत्यं स्याच्छपथे तथ्य एव च । त्रि तु तद्वति सत्या तु सत्यभामाह्वये स्त्रियाम् ॥ १४५० ॥ पत्न्यन्तरे केशवस्य स्पशस्तु नरि संयुगे । चारेऽथ यजमानस्य पत्न्याः सन्नहने स्पशा ॥ १४५१ ॥ योक्रेण स्त्र्यथ ना स्पर्श उपतापप्रदानयोः । स्पर्शने कादिवर्णेषु मावसानेषु सज्जनः ॥ १४५२ ॥ पुनर्जारेऽवदद् द्वे तु स एवाब्रूत किङ्करे । त्रि तु स्प्रष्टरि सिंहस्तु पठति स्मोपतप्तरि ॥ १४५३ ॥ स्वरः षड्जाद्युदात्ताद्योरज्वर्णे कण्ठजस्वने । अरे च शोभने पुंसि त्रि तु स्याच्छोभनारके ॥ १४५४ ॥ अतिशीघ्रेऽप्यथो सामस्वेयज्जादिषु षट्सु नप् । स्वन्नं पुनर्बहुव्रीहौ सुजग्धे रुचिते त्रिषु ॥ १४५५ ॥ शोभनत्वादिसंयुक्ते त्वन्ने तत् स्यान्नपुंसकम् । स्वर्ण तु हेम्नि क्ली रक्तनालिकेरे तु पुंस्ययम् ॥ १४५६ ॥