द्वयक्षरकाण्डे नानालिङ्गाध्यायः । अजयस्तु विशुद्धेऽपि तत्र न्यायात् त्रिषु स्मृतम् | हस्त: किष्कुप्रमाणे ना पाणौ घ्राणे च दन्तिनः ॥ १५७२ ॥ केशार्थात् तु परः केशसमूहेऽपि च दृश्यते । अपि सावित्रनक्षत्रे तद्युक्ते कालमात्रके || १५७३ ॥ ह(र्ता तु? स्तस्त्रि) तत्र जातेऽथ पूर्वोक्तार्थेषु कश्चन । शण्डेऽप्येनं समाम्नासीद् हतं तु त्रिषु मारिते ॥ १५७४ । गते गतवति क्ली तु गमने हननेऽपि च । स्त्री तु कुत्सितकन्यायां हता स्यादथ ना हतः ॥ १५७५ ॥ मार्गे कश्चित्तु तं प्राह विषण्णे त्रिर्हरस्तु ना । शर्वेऽग्नौ गर्दभे तु द्वे हस्रस्तु त्रिषु घातके ॥ १९७६ ॥ क्लीबं तु सन्निपातेऽपि बलाधानेऽथ ना हूदः । स्यादगाधजलाधारे द्वे तु मेषेऽथ भेद्यवत् ॥ १५७७ ।। ह्रस्वोऽल्पे वामने चैकमात्रवर्णे यमे तु ना । हयस्तु ना धनूराशौ गतौ च तुरगे पुनः ॥ ११७८ ॥ द्वयोस्तत्रापि च स्त्र्यर्थे स्याद् ङीषन्ता हयी इति । हरिर्ना विष्णुसूर्येन्द्रचन्द्राग्नियमवायुषु ॥ १५७९॥ अंश शहये मुद्गे रुक्मे रुक्माभवर्णके । श्वेते वररुचिर्वर्णे ब्रूते तु जयमङ्गलः ॥ १५८० ॥ हरिद्वर्णेऽपि कपिले त्रिषु त्वेष गुणैर्युते । एतैश्चतुर्भिर्द्वे त्वेष मर्त्यजात्यन्तरे भवेत् ॥ १५८१ ॥ शूद्रानिषादजे सिंहकपिभेकशुकाहिषु । अश्वेऽश्व भेदे हरितपीतवर्ण इतीदृशः ॥ १९८२ ॥ हरिशब्दः समुद्दिष्टो वाच्यानामेकविंशतौ । बैद्यास्तु केचिन्नारीणां भगेऽप्येनं समामनन् ॥ १५८३ ॥
पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१८३
एतत् पृष्ठम् परिष्कृतम् अस्ति