पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्वक्षरकाण्डे स्त्रीलिङ्गाध्यायः । यात्रा तु वर्तने गत्यामथ याच्ञानुवर्तने । प्रार्थनेऽप्यथ युक्तिः स्यादुपपत्तौ च योजने ॥ ८१ ॥ समाधावथ रक्षा स्याल्लाक्षारक्षणभस्मसु । तिः कन्दर्पभार्यायां सुरतोत्कण्ठयोरपि ॥ ८२ ॥ रागेऽपि परमप्रीतौ रज्जुस्तु स्याद् वराटके | अष्टहस्तप्रमाणे च रास्ता तु सुवहाह्वये || ८३ || भेषजे चापि धेनौ च राठा सुह्येषु नीवृति । शोभायां चाथ राजिः स्यात् क्षेत्रेऽधो रसनस्य च ॥ ८४ ॥ पङ्कौ च राजसर्पे च लेखायां च करादिषु । रीतिर्दग्धसुवर्णादिमले स्थित्यारकूटयोः ।। ८५ ।। प्रचारे स्रवणे पङ्क्तौ स्वभावेऽन्ये तु पित्तले । रुजा भङ्गजरामृत्युरोगेष्वथ रुचिः श्रियाम् ॥ ८६ ॥ अभिष्वङ्गेऽभिलाषेंऽशौ दीप्तौ स्याद् देवतान्तरे । शोभायां तिन्त्रिणीकायाः फले वृक्षाम्लसंज्ञके ॥ ८७ ॥ रेखा तु कृत्रिमे मार्गे हस्तपादतलादिषु । निरन्तरालपङ्क्तौ च वदन्ति विदितागमाः ॥ ८८ ॥ रेटिर्वह्नेश्व रटिते संयतोत्कटवाचि च । तिन्त्रिटीके स्पृहायां च तथा कान्त्यर्चिषेोरपि ॥ ८९ ॥ लता तु वल्ल्यां शाखायां प्रियङ्गुस्पृक्कयोरपि । लताबृहत्यामपि च ज्योतिष्मत्यतिमुक्तयोः ॥ ९० ॥ शारिबायामपि प्राह कश्चित् तन्न विरोचते । १. लङ्का तु तरुशाखायां रावणस्य च पत्तने ॥९१॥ लक्ष्मीः श्रीभूतिशोभासु वृद्धिसंज्ञे च भेषजे । ऋद्धिसंज्ञे च कस्याञ्चिद् विष्णोर्नवसु शक्तिषु ॥९२॥ 'ष' ख. ग. पाठः. २. 'तू' क. ख. पाठः. ३. 'तू' क. पाठः. तत्यां शा' ख. पाठः १७ ४. ग्र