________________
द्व्यक्षरकाण्डे पुल्लिङ्गाध्यायः। मन्थो मथनदण्डे च द्रवसिक्तेषु सक्तुषु । मखो यज्ञे यशस्कामसत्रयाजिसुरान्तरे ॥ ९२ ॥ मरुस्तु निर्जले देशे शैले चेक्ष्वाकुवंशजे । पितामहेऽम्बरीषस्य नृपेऽपि च नृपान्तरे ॥ ९३ ॥ सोमवंशजहर्यश्वपुत्रे भूम्नि तु नीवृति । दशेरकाख्ये मन्थी तु भास्करे राहुचन्द्रयोः ॥ ९४ ॥ गृहाख्यसोमपात्राणामेकस्मिन् यज्ञकारिणाम् । माथस्तु मथने मार्गे मोक्षस्तु स्याद् विमोचने ॥ ९५ ॥ अपवर्गे च मृत्यौ च मुष्कराख्यद्रुमान्तरे । मोहः पुनः स्यादज्ञाने मूर्छायां क्रोध एव च ॥ ९६॥ अजयस्त्वाह तन्द्रायामपि यज्ञस्तु केशवे । अमावात्मनि योगे च यक्ष्मस्तु व्याधिमात्रके ॥ ९७ ॥ क्षयरोगे पूजने च यक्ष्मा तु व्याधिमात्रके । क्षयरोगे च यागस्तु यज्ञेऽप्यागमवेदिनाम् ॥ ९८ ॥ शैवानां प्रथितेषु स्यात् सर्वतोभद्रकादिषु । मण्डलेष्वथ यावः स्यान्मासेऽलक्तकसंज्ञके ॥ ९९ ॥ रागद्रव्ये च योगस्तु ध्यानयोजनकर्मणि । भेषजे सङ्गतौ प्राप्तौ जवे विस्रब्धघातिनि ॥ १०० ॥ केचित् सन्नहनोपाय इत्येकार्थं प्रचक्षते । अन्ये सन्नहनेऽप्याहुरुपाये चेति केचन ॥ १०१ ॥ रदो विलेखने दन्तेऽप्यथादन्तो रजध्वनिः । रजस्संज्ञगुणे पांसौ स्त्रीपुष्पेऽप्यजयोऽब्रवीत् ॥ १०२ ॥ रागोऽनुरागे मात्सर्ये रक्तवर्णे रजस्यपि । लाक्षादिरञ्जनद्रव्ये दीप्तौ क्लेशादिकेऽपि च ॥ १०३ ॥